________________
काव्यकल्पलतावृत्ति:-परिशिष्ट
१०९
मुहुः पश्यन् श्रुण्वन् रजनिचरसेनाकलकल
जटाजूटग्रन्थिं दृढयति रघूणां परिवृढः ।।छ।। परक्षेपाद्यसहन तेजः, प्राणात्ययेऽपि हि पराच्छत्रोर्न तु गरोमित्रादेर्वा क्षेपस्तिरस्कारस्तस्य। आदिशब्दान्यावज्ञादेरसहनं प्राणात्यये हि प्राणात्ययमप्यङ्गीकृते (त्ये)त्यर्थः। तेनासहिष्णत्वमक्षमा, न तु देशकालावस्थाद्यपेक्षया नीत्या च सहनपूर्वकं नियतिनमिति यथा--
ब्रत न तनकूष्माण्डफलानां के भवन्त्यमी। अङ्ग लीदर्शनाद्येन न जीवन्ति मनस्विनः ।।
स धीरोदात्तललितशान्तोद्धतश्चतुर्विधः। स नायकः। धीरशब्दः प्रत्येक योज्यः। धीरोदात्तधीरललित धीरशांतधीरोद्धता इति । अकातरत्वं धीरशब्दस्यार्थः सर्वत्र समान एव ॥छ।।
दक्षिणो धृष्टोऽनुकुल: शठश्चेति चतुर्विधः ।।
एककोऽयं नायकस्य भेदाः स्युरिति षोडश ।। धीरोदात्तादीनां लक्षणं यथा--
गूढगर्व: स्थिरो धीरः क्षमावानविकत्थनः ।
दृढव्रतो महासत्त्वो धीरोदात्तः स रामवत् ।। गूढगर्यो विनयच्छन्नावलेपः । स्थिरो विमृश्यकारी। धीरो महाव्यसनेऽप्यकातरः। अवि.... नात्मश्लाघापरः ढवतोऽङ्गीकृतनिर्वाहकः। महासत्त्वः क्रोधशोकाद्य () नभिभूतान्तसत्त्व:--
सुखी मृदुः, कलासक्तः शङ्गारी, चिन्तयोज्झितः।। विज्ञेयो धीरललितो नलवद्वत्सरा... सुखी सोग (राग?) प्रवणो, मृदुरक्रुराचारः। कलासु गीताद्यास्वासक्तः । शङ्गारप्रधानो मन्त्रिणः राज्यभारत्वाच्चिन्तारहितः ।।छ।।
विनयी निरहङकार: कृपावान् सनयः शमी। धीरशान्तो यथा--
विनयी गुरु: जनाद्यनुलंधीत्वात् ... निरहङ्कारः सर्वथाऽप्यनवलेपः। धीरोदात्तस्तु विनयच्छन्नावलेप इति भेदः। मालतीमाधवे माधवः ।
अविलिप्तश्चलो रौद्रः शूरो मायी विकत्थनः । मत्सरी छद्मवान् धीरोद्धतो रावणवत् मतः ।।
अविलिप्तः शौर्यादिमदवानव (ब)लोऽनवस्थितो, रौद्रश्चण्डः, मन्त्रादिव (ब) लेनाविद्यावान् नवस्तुप्रकाशको, मायी विकत्थनः, स्वप्रशंसी मत्सरी, असहतः छद्मवञ्चनमात्रम् ।।छ।।
देवा धीरोद्धता धीरोदात्ताः सैन्येशमन्त्रिणः ।
धीरशान्ता वणिग्विप्रा राजानः स्युश्वतुर्विधाः ।। अयं च नियमो देवादीनां मापेक्षया शिवादीनामदात्तानां, ब्रह्मादीनां शान्तानामापदर्शनात्। राजान इति क्षत्रिय जातिः। बहवचनाद व्यक्तिभेदेन चतु:स्वभावो, नाटकस्य नेता, कस्यां व्यक्ती। एकत्र प्राधान्येन स्वभावचतुष्कस्य वर्णायितुमशक्यत्वादिति । प्रधाननायकस्य वानियमो, गौणनेतणां तु स्वभावान्तरमपि.....वत्यामेन निबध्यते।।
१. 'देवाना' पा.प. १।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org