SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ १०८ काव्यकल्पलतावृत्तिः-परिशिष्ट मदुर्गारहिता शङ्गारिणी शृङ्गाररसजनिता चेष्टा । वचःकायव्यापृतिर्यथा- . कश्चित् कराभ्यामुपगृढनालमालोलपत्राभिहितद्विरेफम् । रजोभिरन्तः परिवेषबंधि लीलारविन्दं भ्रमयाञ्चकार ।। विघ्नेऽप्यचलनं स्वैर्यमारब्धात् कर्मणोऽखिलान् । अवचलनं दाढर्यं अखिलाच्छुभादशुभादपि ।। यथा यथा समारेभे दैवात् सिद्धिन (न) गच्छति । तथा तथाऽधिकोत्साहो धीराणां हृदि वर्तते ॥ औदार्य दानमभ्युपपत्ति: संभाषण जने। दानमाजीवितादेरभ्युपपत्तिः, परित्राणार्थिनोङ्गीकरणं, संभाषणं प्रियालापो जने स्वकीये परकीये वा। दानं यथा शिरोमखैः स्पन्दत एव रक्तमद्यापि देहे मम मांसमस्ति । तप्ति न पश्यामि तवैव तावत् किं भक्षणं त्वं विरतो गरुत्मन् ।। अभ्युपपत्तिर्यथा एते वयममी दाराः कन्येय कुलजीवितं । ब्रूत येनात्र वः कार्यमनास्थो बाह्यवस्तुषु ।। संभाषणं यथा-- उत्पत्तिर्जमदग्नितः स भगवान देव: पिनाकी गुरु: __शौर्य यत् तु न तद्गिरां पथि न तु व्यक्तं हि तत्कर्मभिः ।' त्यागः सप्तसमुद्रमुद्रितमहीनिर्व्याजदानावधिः ___सत्य ब्रह्मतपो निधिर्भगवतः किं वा न लोकोत्तरम् ॥छ।। (महावीरचरिते) गाम्भीर्य कोपहर्षादिविकारान्नुपलम्भकृत् । यन्माहात्म्यात् क्रोधानन्दादीनां मुखरागनेत्रविकासादयो विकारा नोपलभ्यन्ते। तन्निविकारदेहस्वरूपं गाम्भीर्य । आदिशब्दाद्भयशोकादिग्रहः । यथा-- आहृतस्याभिषेकाय विसष्टस्य वनाय च । न मया लक्षितस्तस्य स्वल्पो ऽप्याकारविभ्रमः॥छ।। माधुर्यं मधुरा चेष्टा क्षोभहेतो महत्यपि । अनुल्बणत्वं मधुरा चेष्टा परिकरबन्धस्मश्रुकेशसमारचनवस्त्रावलोकनादिश्लक्ष्णो विकारः क्षोभः सत्त्वचलनं । तस्य हेतौ युद्ध नियुद्धव्यायामादौ विकारानुपलम्भान् मृदुविकारोपलब्धिरन्यो ऽतिर्गाम्भीर्यादन्यन्माधुर्यं यथा-- कपोले जानक्या परिकलभदन्तद्युतिमुषिस्मरस्मेरं गण्डोडमरपूलकं वक्त्रकमलं । १. मूले तु 'वीयं यत्तु न तद्गिरां पथि ननु व्यक्तं हि तत्कर्मभिः।' इति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy