SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ “११० काव्यकल्पलतावृत्तिः -परिशिष्ट अथ नायकस्य शृङ्गारित्वेऽस्थाभेदाः। ज्येष्टा (प्ठा)यामपि सप्रेम दक्षिणो वत्सराजवत् । कनिष्ट (ष्ठा)यां रक्तो ज्येष्ठा (या) मपि मानदाक्षिण्यशीलत्वाद्दक्षिणो यथा-- प्रसीदत्यालोके किमपि किमपि प्रेमगुरवो रतक्रीडाः कोऽपि प्रतिदिनमपूर्वोऽस्य विनयः। सविश्रम्भः कश्चित् कथयति च किञ्चित् परिजनो न चाह प्रत्येमि प्रियसखि किमप्यस्य दयितम ।। व्यक्तापराधवान् धृष्टो यथा-- लाक्षालक्ष्मललाटपट्टमभितः केयूरमुद्रा गले वक्त्रे कज्जलकालिमा नयनयोस्ताम्बुलरागः परः । दष्टवा कोपविधायिमण्डनमिदं प्रातश्चिरं प्रेयसो लीलातामरसोदरे मगदशश्वासाः समाप्ति गताः ।। (. श. ६०) एकभार्योऽनकुलः स्याज्जानकीदयितो यथा--- इयं गेहे लक्ष्मीरियमतरवत्ति नयनयो २ रसावस्याः स्पर्शो वपुषि बहुलश्चन्दनरसः । अयं बाहुः कण्ठे शिशिरमसृणो मौक्तिकसरः किमस्या न प्रेयो यदि परमसह्यस्तु विरहः ।। (उतररामचरित २.३२) शिवो गूढापराधवान् यथा दृष्ट्वकासनसङ्गते प्रियतमे पश्चादुपेत्यादरादेकस्या नयने निमील्य विहितक्रीडानबन्धच्छलः । ईषद्वक्रितकन्धरः सपुलकप्रेमोल्लसन्मानसामन्त सवलत्कपोलफलकां धूर्तोऽपरां चुम्बति ॥छ। (अमरुशतक) अथ नायकविजये प्रतिनायकस्य लक्षणं लुब्धो धीरोद्धतः पापी व्यसनी प्रतिनायकः । दशास्यदुर्योधनवद्रासधर्मतनूजयोः ॥छ।। अथ नायिकालक्षणम्-- नायिका तद्गुणा स्वान्या सामान्या विविधा मता। तद्गुणा यथोक्त सम्भविनायकगुणयोगिनी । सा च स्चीया परकीया साधारणा चेति त्रिधा । अथ स्त्रीलक्षणम्-- स्वेनोढा शीलादिमती स्वा रामस्येव जानकी । . आदिग्रहणाल्लज्जाधावगृहाचारचातुर्यादिपरिग्रहः ।। १. 'लक्ष्मललाटपट्टमभि' इदं पाप १ पुस्तके नास्ति । २. मूलेतु .....रियममृत....इति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy