________________
काव्यकल्पलतावृत्तिः -परिशिष्ट
कुन्दक्षेपानुगमध करश्रीमुरवामात्मविम्बं
पात्रीकुर्वन् दशपुरन्धुनेत्रकौतुहलानाम् ।। (मेघदूत-पूर्व) बहित्यादि। शिवचन्द्रस्य बालत्वं यथा--
मालायमानामरसिन्धहंस कोटीरवल्लीकुसुमं भवस्य ।
दाक्षायणीविभ्रमदर्पणश्रीबालेन्दुखण्डं भवतः पुनातु ॥ कामस्य मुर्तत्वं यथा--
अयं स भुवनत्रयप्रथितसयमः शङकरो बिभर्ति वपुषाधुना विरहकातरः कामिनी अनेन किल निजिता वयमिति प्रियायाः करं
करेण परिताडयान् जयति जातहासः स्मरः ।। अमूर्तत्वं यथा--
धनाला मौक्विणादलिकूल लक्ष्यमबलामनोभेचं शब्दप्रभृतय इमे पञ्च विशिखाः ।
इयान् जेतु यस्य त्रिभुवनमनङ्गस्य विभवः स वः कामान् कामो दिशातु दयितापाङ्गवसतिः ॥छ।। इतिश्री वायटगच्छीय श्रीजिनदत्तमूरिशिष्यपण्डित श्रीमदमरचन्द्रविरचिते स्वोपज्ञकाव्यकल्पलतावत्तिविवेचने परिमलनाम्नि वर्ण्यस्तबकोल्लासी कविसमयकीर्तन एकादशः प्रसरः ॥छ। ग्रथ: १८०॥ देवेत्यादि।
देवाः स्युरहब्रह्मेश विष्णु बुद्धांशमन्मखाः । देव्य: सरस्वतीलक्ष्मीगौरीप्रभृतयः श्रुताः ।। चतुर्विशतिरहन्तस्तत्राद्यो वृपभः प्रभुः । द्वितीयोऽस्त्वजितस्वामी ततीयः सम्भवाभिधः ।। अभिनन्दनश्चतुर्थ. पञ्चमः सुमतिः प्रभुः । षष्ठ पद्मप्रभनामा सुपार्श्वः सप्तमः पुनः ।। अष्टमश्चन्द्रप्रभश्च नवम सुविधिः प्रभुः । दशमः शीतलस्त्वेकादशः श्रेयांस तीर्थकृत् ।। द्वादशो वासुपूज्यो च विमलस्तु त्रयोदशः । अनन्तश्चतुर्दशश्च धर्म: पञ्चदशस्ततः ।। पोडशः शान्तिनाथस्तु कुन्थः सप्तदशः पुन.। अरनाथोऽष्टादशोऽथ मल्लिरेकोनविंशकः ।। सृव्रतो विंशतितमः त्वेकविंशो नमिः प्रभुः । द्वाविंशो नेमिनाथस्त्रयोविंश: पार्वतीर्थकृत् ।। चतुर्विंशो महावीर: सर्वेऽष्टादशभिस्त्वमी। दोषमुक्ताश्चतुस्त्रिशन मितैरतिशयैर्यताः ।। परिक्षीणाष्टकर्माण: प्राप्तानन्तचतुष्टयाः । चतुर्विधस्यसठ्ठ स्य सन्तु कल्याणकारिणः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org