SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ काव्यकल्पलतावृत्तिः परिशिष्ट तप्तकाञ्चननाभिमरीचिनाभिभूपतनुभूवृषभाङकः । श्रेयसेऽस्तु वृषभो मरुदेवी कुक्षिवारिजपिलासमरालः ।। १ ।। सकृशानु परितप्तसुवर्णव्यावर्ण्यमूत्तिरजितो गजराज केतुः I कर्मावलीभिरजितो जितशत्रु गोत्रजन्मा तनोतु विजयातनयां नयं वः ॥ २ ॥ Jain Education International सेनाङ्गजन्मा विजितान्तरारिसेनो जितारिक्षितिपस्य सूनुः । तुरङ्गलक्ष्मा कनकाभलक्ष्मी श्रीसम्भवः शंभवतां तनोतु || ३ || बिभ्राणो धृतकपिलाञ्छनं शरीरं स्वर्णश्रीशुचिरुचिसंवरस्य सूनुः । सिद्धार्था तनुजनिरातनोतु नित्यं सिद्धि वो मुदमभिनन्दन। जिनेशः || ४ || क्रौञ्चाञ्चितः संसृति तापमेघो मेघाङ्गजन्मा सुमतिजिनेन्द्रः । स्वर्णच्छविर्यच्छ्तु मङ्गलानि श्रीमङ्गलाकुक्षिसरः सरोजम् ||५|| धरावनीशप्रभवः प्रभावः सीमासु सीमातनुजो जिनेन्द्रः । पद्मप्रभः पद्मसुहन्मरीचिपद्मध्वजेो वः शिवता तिरस्तु || ६ || श्रीप्रतिष्ठनृपत्वंशावतंसः स्वस्तिकाङकरुचिरो दुरितं वः । श्रीसुपार्श्व विरस्य तु पृथ्वीनन्दनः कनकनन्दनमूत्तिः ॥७॥ श्रीलक्ष्मणा तनुभवो भवतामगण्य नैपुण्यपुण्यमहसे महसेनसूनुः । चन्द्रप्रभो जनविभुर्भवतादतन्द्रचन्द्रप्रभाद्भुतरुचिः सितकान्तिकेतुः ॥ ८ ॥ शुभ्रश्रीर्मरकमायतलांछनेन प्राजिष्णुः सुविधिरयं जिनाधिनाथः । श्रीरामाजनिरनिशं ददातु शं वः सुग्रीवक्षितिपतिवशतल्ल हंसः ||९|| श्रीवच्छलाञ्छित तनुर्नव कर्णिकारन्यक्का कारणमयूष समुच्छ्यो वः । श्रेयो दृढं दृढरथन्वयमौलिनन्दी नन्दासुतः सृजतु शीतल राजहंस ||१०|| श्रीविष्णुकुक्षिसरसीरुहराजहंसः श्रीविष्णुभूपकुलकाननकल्पशाखी । श्रेयांस तीर्थपतिरस्तु सुखायखङिगलक्ष्म्या विकासिनवचम्पककान्तिसम्पत् ॥ ११ ॥ ॥ जयातनूजो वसुपूज्यसूनुः श्री वासुपूज्यः सुरराजपूज्यः । लुनातु कर्माणि लुलायलक्ष्मा युष्माकमब्जोद रसोदरश्रीः ।। १२ ।। तारुण्यचारुतराणि प्रवरां वराहचिह्नं दधत्तनुमयं विमलो जिनेन्द्रः । श्यामासुतः सुकृतवर्मधरः कुकर्ममर्म छिनत्तु कृतवर्म नरेन्द्रसूनुः ।।१३।। श्येन केतु रघकुञ्जरसिंहः सिंहसेनतनयः कनकाभः । सोमकोमलयशाः सुयशाभूर्यच्छ्तायुखमनं तमनन्तः ॥ १४ ॥ दुरित तिमिरभानुर्भानु सूनुर्व्रतैकव्रतति विर्तातिवृक्ष. सुव्रता कुक्षिजन्मा । भवगिरिगुरुवज्रं वज्रकेतुः सुवर्णद्युतिरुदयतु धर्मे धर्म तीर्थंकरो वः ॥ १५॥ पणकेतुरचिरातनुजन्मा विश्वासेन कुलमन्दिरदीपः । रोचनारुचिवरोचितकान्तिः शान्तिरस्तु भव भवशान्तिकरो वः ।।१६।। १. कनकासलक्ष्मीः ' - दे.प., पा. प. १; पा. प.ब२ । For Private & Personal Use Only ८५ www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy