Book Title: Kavyakalpalatavrutti
Author(s): Amarchand Maharaj, R S Betai, Jitendra B Shah
Publisher: L D Indology Ahmedabad
View full book text
________________
काव्यकल्पलतावृत्तिः-परिशिष्ट
किं छत्रं किन्तु रत्न तिलकमथ तथा कुण्डलं कौस्तुभो वा चक्रं वा वारिजं चेत्यम रयुवतिभिर्यद्वलिट्रेषि देहे। ऊर्द्ध मौलौ ललाटे श्रवसि हृदि करे नाभिदेशे च दृष्टं पायात्तद्वोर्क बिम्बं स च दनुजरिपुर्वर्द्धमानः क्रमेण।।५।। दिग्मातङ्गघटाद्विरुक्तचतुरा घाटा मही साध्यते सिद्धा साऽपि वदन्त एव हि वयं हर्षेण रोमांचिताः। विप्राय प्रतिपाद्यते किमपरं रामाय तस्मै नमो यस्मात् प्रादुरभूत्तथाद्भुतमिदं तत्रैव वास्तं गतं ।।६।। रेफव्यञ्जनता जता तव तवाकारप्रकर्षः स्वरेs प्यन्यस्यापि विकार विस्फुरति ते वर्गाक्षरेष्वादिमा। यः सम्भूय निगद्यते रघु कुलालङकारदीपाङकुरी देवः क्षोणिसुतापयोधरतटी शृङ्गारहारो हरिः ।।७।। आरम्भे हरिमण्डलभ्रमकृतैरान्दोलनविस्मितं मलानं बाहुलतोपपीडनभयात्प्रोल्लासने भूभृतः। दत्ता: कृष्णकराग्रशायिनि मठो (हो?) श्रेयांसि पुष्णन्तु वो गोपीभिभुजवल्लिकंकणझणत्कारोत्करास्तालिकाः ।।८।। ध्यानव्याजमुपेत्य चिन्तयसि कामुन्मील्य चक्षुः क्षणं पश्यानङ्गशरानुरञ्जनमिमं त्राताऽपि नो रक्षसि । मिथ्या कारुणिकोऽसि निधुणतरः त्वत्तः कुतोऽन्यः पुमान् सेऱ्या मारवधूभिरित्यनिहितो बुद्धो जिनः पातु वः ।।९।। लक्ष्मीश्चन्द्रेभकुम्भासिविष्टर: कमलाश्रयाः। फला भयाम्बुजद्वन्द्वयुतपाणिचतुष्टया ।।छ।। स्मरे तपस्विशत्रुत्वं जगत्त्रितयत्रता रतिक्रीडा शिवभङ्गः स्त्रीविलासमुमासुता ।। वसन्तोऽस्य सुहद्धाणा पंचावस्थाः पुनर्दश-उन्मादनो मोहनश्च तापनः शोषणस्तथा। मारणश्चेत्यमी बाणाः पञ्चबाणस्य कीर्तिताः ।। अभिलाषोऽथ चिन्ता स्यात् स्मृतिश्च गुणकीर्तने । उद्वेगोऽथ प्रलापः स्यादुन्मादो व्याधिरेव च ।। जडता मरणं चैता दशावस्था मनोभुवः ॥छ।। अथ बुद्धः। बुद्धे परमकारुण्यं मारसैनिकजैत्रता। भवपञ्जरनिर्भेदः परार्थे प्राणदायिता ।। कामेनाकृष्य चापं हतपटपटहावल्गिभिर्मारवीरैः भ्रूभङ्गोत्कम्पजृम्भास्मितकलितदृश। दिव्यनारीजनेन ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454