Book Title: Kavyakalpalatavrutti
Author(s): Amarchand Maharaj, R S Betai, Jitendra B Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 399
________________ १०२ काव्यकल्पलतावृत्तिः-परिशिष्ट अथ में (मी)मांसकं-- मीमांसको द्विधा कर्म ब्रह्म मीमांसकत्वतः । वेदान्ती मन्यते ब्रह्म कर्म भट्टप्रभाकरौ । प्रत्यक्षमनमानं च वेदाश्चोपमया सह। अर्थापत्तिरभावश्च भ (ट्रोऽथ षट)प्रमाण्यसौ ।। प्रभाकरमते पञ्चैतान्येवाभाववर्जनात् । अद्वैतवादी वेदांती प्रमाणं तु यथा तथा ।। सर्वमेतदिदं ब्रह्म वेदान्तेऽद्वैतवादिना। आत्मन्येव लयो मुक्तिदान्तिकमते मता। अकूकर्मा भद्रकर्मा शद्रत्वादिविवर्जकः। ब्रह्मसूत्री द्विजो भट्टो गृहस्थाश्रमसंश्रितः।। भगवन्नामधेयाश्च द्विजा वेदान्तदर्शने। विप्रगेहे भुजस्त्यक्तोपवीता ब्रह्मवादिनः।। चत्वारो भगवद्भेदा: कुटीचरबहूदको हंस: परमहंसइचाधिकोऽमीषु परःपरः।। इति मीमांसकमतम अथ बौद्ध:-- बौद्धानां सुगतो देवो विश्वं च क्षणभंगुरम् । आर्य सत्वा (त्याख्य)या सत्त्वचतुष्टयमिदं क्रमात् ।। दुःखमायतनं चैव ततः समुदयो मतः। मार्गस्येत्य (त)स्य च व्याख्या क्रमेण श्रूयतां मत: (ता)।। दुःख संसारिणां स्कन्धास्ते च पञ्च प्रकीर्तिताः। विज्ञानं वेदना संज्ञा संस्कारो रूपमेव च ॥ अथायतनानि-- पञ्चेन्द्रियाणि शब्दाद्या विषयाः पञ्च मानसम्। धर्मायतनमेतानि द्वादशायतनानि तु।। अथ समुदयः। रागादीनां गणो यस्मात् समुदेति नृणां हृदि । आत्मात्मीयस्थभावाख्यः स स्यात् समुदय : पुनः।। अथ मार्ग:-- क्षणिका: सर्वसंस्कारा इति या वासना स्थिरा। स मार्ग इति विज्ञेयः स च मोक्षोऽभिधीयते ।। प्रत्यक्षमनमानं च प्रमाणद्वितयं तथा। चतुःप्रास्थानिका बौद्धाः ख्याता वैभाषिकादयः।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454