________________
१०२
काव्यकल्पलतावृत्तिः-परिशिष्ट
अथ में (मी)मांसकं--
मीमांसको द्विधा कर्म ब्रह्म मीमांसकत्वतः । वेदान्ती मन्यते ब्रह्म कर्म भट्टप्रभाकरौ । प्रत्यक्षमनमानं च वेदाश्चोपमया सह। अर्थापत्तिरभावश्च भ (ट्रोऽथ षट)प्रमाण्यसौ ।। प्रभाकरमते पञ्चैतान्येवाभाववर्जनात् । अद्वैतवादी वेदांती प्रमाणं तु यथा तथा ।। सर्वमेतदिदं ब्रह्म वेदान्तेऽद्वैतवादिना। आत्मन्येव लयो मुक्तिदान्तिकमते मता। अकूकर्मा भद्रकर्मा शद्रत्वादिविवर्जकः। ब्रह्मसूत्री द्विजो भट्टो गृहस्थाश्रमसंश्रितः।। भगवन्नामधेयाश्च द्विजा वेदान्तदर्शने। विप्रगेहे भुजस्त्यक्तोपवीता ब्रह्मवादिनः।। चत्वारो भगवद्भेदा: कुटीचरबहूदको हंस: परमहंसइचाधिकोऽमीषु परःपरः।। इति मीमांसकमतम
अथ बौद्ध:--
बौद्धानां सुगतो देवो विश्वं च क्षणभंगुरम् । आर्य सत्वा (त्याख्य)या सत्त्वचतुष्टयमिदं क्रमात् ।। दुःखमायतनं चैव ततः समुदयो मतः। मार्गस्येत्य (त)स्य च व्याख्या क्रमेण श्रूयतां मत: (ता)।। दुःख संसारिणां स्कन्धास्ते च पञ्च प्रकीर्तिताः। विज्ञानं वेदना संज्ञा संस्कारो रूपमेव च ॥
अथायतनानि--
पञ्चेन्द्रियाणि शब्दाद्या विषयाः पञ्च मानसम्। धर्मायतनमेतानि द्वादशायतनानि तु।।
अथ समुदयः।
रागादीनां गणो यस्मात् समुदेति नृणां हृदि । आत्मात्मीयस्थभावाख्यः स स्यात् समुदय : पुनः।।
अथ मार्ग:--
क्षणिका: सर्वसंस्कारा इति या वासना स्थिरा। स मार्ग इति विज्ञेयः स च मोक्षोऽभिधीयते ।। प्रत्यक्षमनमानं च प्रमाणद्वितयं तथा। चतुःप्रास्थानिका बौद्धाः ख्याता वैभाषिकादयः।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org