________________
काव्यकल्पलतावृत्तिः-परिशिष्ट
अर्थो ज्ञानान्वितो वैभाषिकेण बहु मन्यते। सौत्रांतिकेन प्रत्यक्षग्राह्योऽर्थो न बहिर्मतः ।। आकारसहिता बुद्धिर्योगाचारस्य सम्मता। केवलां संविदं स्वस्था मध्यमा पुनः....॥ रागादिज्ञानसन्तानवासनोच्छेदसम्भवा । चतुर्णामपि बौद्धानां मुरेिषा प्रकीर्तिताः ।। कृत्तिः कमण्डलः मौण्डयं चीरं पूर्वाह्नभोजनम् । संघेरक्ताम्बरत्वं च शिश्रेयो बौद्ध भिक्षुभिः ॥२९।। अर्थो ज्ञानसमन्वितो मतिमता वैभाषिकेणेष्यते प्रत्यक्षो बाह्यवस्तुविषयः सौत्रान्तिकैराश्रिताः ।
योगाचारमतानगैरभिहिता साकारबद्धिः परा ।। आकारबुद्धिरेवास्ते न परमाणुर्त परमानुभिनिष्पन्नं किमपि च, किन्तु घटाकारः पटाकार एव सत्यः। घटाकारं पटाकारं मे ज्ञानमत्पन्नं तस्मात् घटेन पटेन वा भाव्यं नीलाकारं मे ज्ञानमुन्पन्नं तस्मानीलेन वस्तुना बहिर्भाव्यम् । तस्मादबाह्यपरमाणु प्रभृतिकं किमपि नास्ति आकारबुद्धिरेव । ३ स्वच्छां परां सविदं सविबुद्धिः कथ्यते । सा एवं तिष्ठति पुनर्ग्राह्यं ग्राहको वा तिष्ठति यद्बाह्य ग्राहको वा तत्सर्वं बुद्धिपरिणतिस्तस्मात् सैव तिष्ठति। कोऽर्थः ज्ञानसन्तानमेव तिष्ठतीत्यर्थः। एते चत्वारोऽपि परस्परघातका मध्यमा नास्तिकप्रायाः इति बौद्धम् ॥छ।। अथ सांख्यं--
सांख्ये देव: शिव: कैश्चिन्मतो नारायणः परः । उभयोः सर्वमप्यन्यत्तत् प्रभृतिक समम् ॥३०॥ सांख्या: (ख्यानां) स्यगणाः सत्त्व रजस्तम इति त्रयः । सौम्यावस्था भवत्येषां त्रयाणां प्रकृतिः पुनः ।। प्रकृतेः स्यान्महांस्तावदहंकारस्ततोऽपि च ।। पञ्च बुद्धीन्द्रियाणि स्युश्चक्षुरादीनि पञ्च च । कर्मेन्द्रियाणि वाक्यानि चरणोपस्थपायवः । (एतेषां पञ्च) तन्मात्राः शब्दो रूपं रसस्तथा ।। स्पर्शो गन्धोऽपि तेभ्य: स्यात् पश्च्याद्यं भूतपञ्चकम् । इयं प्रकृतिरेतस्याः परस्तु पुरुषो मतः ।। पञ्चविंशतितत्त्वीयं नित्यं सांव्यमते जगत् ।। प्रमाणत्रितयं चात्र प्रत्यक्षमनुमानतः । यदैव जायते भेदः प्रकृतेः पुरुषस्य च ।। मुक्तिरुक्ता तदा सांख्यः रूयातिः सैव तु भण्यते । सांख्य: शिखी जटी मुण्डी कषायाद्यम्बरोऽपि च ।।
वेषे नास्त्येव सांख्यस्य पुनस्तत्त्वे महाग्रहः ॥ इति सांख्यमतम् ३९ १. 'वषेऽनास्थव' पा.प. २।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org