SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ काव्यकल्पलतावृत्तिः-परिशिष्ट अथ शैवं-- शिवस्य दर्शने तर्कावुभौ न्यायविशेषको। न्याये षोडशतत्त्वी स्यात् षट्तत्त्वी च विशेषके ।। अन्योन्यतत्त्वान्तर्भावात् द्वयोर्भेदोऽस्ति नास्ति वा । द्वयोरपि शिवो देवो नित्यः सृष्ठवादिकारकः ।। नैयायिकानां चत्वारि प्रमाणानि भवन्ति च । प्रत्यक्षमागमोऽन्यच्चानुमानमुपमाऽपि च ॥४०।। अथ तत्त्वानि प्रमाणं च प्रमेयं च संशयश्च प्रयोजनम् । दृष्टान्तोऽप्यथ सिद्धान्तावयवी तकनिर्णयौ ।। वादस्तों वितण्डा च हेत्वाभासाच्छलानि च । जातयो निग्रहस्थानानीति तत्त्वानि षोडश ।। अथ वैशेषिकम्-- वैशेषिकमते तावन्प्रमाणत्रितयं भवेत् । प्रत्यक्षमनुमानं च तार्तीयकस्तथागमः । द्रव्यं गुणस्तथा कर्म सामान्यं सविशेषकम ।। समवायश्च षटतर्का तव्याख्यानमथोच्यते । द्रव्यं नवविधं प्रोक्तं पृथिवीजलवह्नयः ।। पवनो गगनं कालो दिगात्मा मन इत्यापि । नित्यानित्यानि चत्वारि कार्यकारणभावतः ।। पवनो गगनः काल दिगात्मा मन इत्यपि । मनो दिक्काल आत्माऽथ व्योमानत्यानि पञ्च तु ।। अथ गुणा:-- स्पर्शो रूप रसो गन्धः संख्या च परिमाणकम् । पृथक्त्वमथ संयोगविभागौ च परत्वकम् ।। अपरत्वं बुद्धिसौख्ये दुःरवोत्थद्वेषयत्नको । धर्माधमौ च संस्कारा गरुत्वं द्रव इत्यपि ।। स्नेहः शब्दो गुणा एवं विंशतिश्चतुरन्विताः । अथ कर्माणि वक्ष्यामः प्रत्येकमभिधानतः ॥ उत्क्षेपणावक्षेपणात् कञ्चनं च प्रसारणम् । गमनानीति कर्माणि पञ्चोक्तानि तदागमे ।। सामान्यं भवति द्वधा परं चैवापरं तथा । परमानषु वर्तन्ते विशेषा नित्य वृत्तयः ।। सामान्यविशेषौ। भवेदयुतसिद्धानामाधाराधेयवर्त्मनाम । सम्बन्धः समवायाख्य इह प्रत्ययहेतुक: ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy