________________
काव्यकल्पलतावृत्तिः-परिशिष्ट
इत्यत्र अह्रादिसंयुक्त वर्ण व्यञ्जने चाग्रगे ल्गुरुरिति हस्य न गुरुत्वम् । द्वादशकल्पो परिनवधा प्रैवेयकास्तु पञ्चधा स्युस्तनुत्तराः। अवेयकानि नवविमानानि तत्रभवाः। जयविजयजयन्तवे (वै) जयन्तसर्वार्थ सिद्धिविमानानि पञ्चानुत्तर विमानानि, तत्र भवाः। अनुत्तरविमानो परिमुक्तिशिला, तत्र मुक्तात्मनां स्थानम् ।।।।
"निकायभेदतो देवा भवन्त्येवं चतुर्विधाः। एवमुक्तप्रकारेण देवा भवनपत्यादयश्चतुर्विधाः निकायभेदात् ; निकायो निवास उत्पादनस्थानं, तद्भेदात् । तथाहि-भवनपतयोऽशीतिसहस्राधिकयोजनलक्षपिण्डायां रत्नप्रभायामूर्ध्वमधश्च योजनसहस्रमेककमपहाय मध्येऽष्टसुयोजनशतेषु जन्म प्रतिलाभन्ते। ज्योतिष्कास्तु समतलाद्भूभागात् सप्तशतानि नवत्य धिकानि योजनानामारुह्य दशोत्तरयोजनशतपिण्डे नभोदेशे लोकान्तात् किञ्चित् न्यूने जन्म गृह णन्ति। वैमानिका रज्जुमध्यर्धामधिरुह्यामुतः सौवर्मादिषु कल्पेषु सर्वार्थासिद्धिपर्यवसनिषूत्पद्यन्ते। तदेवमुत्पादनिवासभेदाच्चतुर्विधा देवाः । स्वधामसूत्पन्नाः भवनपत्यादयोऽन्यत्र लवजलधिमन्दरवर्षधराह्रिद्रुमगहनप्रभृतिषु वसन्ति। उक्तस्थानव्यतिरेकेणान्यत्रषामत्पादो जन्म नास्तीति निवासार्थः संतार्थो वा निकायशब्दः॥छ।। देवस्वरूपमुक्त्वा देवप्रतिबद्धदशनविचारे क्रमोऽस्मद्गुरु श्री जिनदत्तसरिविरचितश्रीविवेकविलासतो लिख्यते। यथा
जैन मैमांसकं बौद्धं सांख्यं शैवं च नास्तिकम्।
स्वस्वतर्कविभेदेन जानीयाद्दर्शनानि षट् ॥१॥ अथ जैनम्।
अर्हन्देवो गुरुः सम्यक तत्त्वज्ञानोपदेशकः । ज्ञानदर्शनचारित्राण्यपवर्गस्य वर्तनी।।२।। स्याद्वादश्च प्रमाणे द्वे प्रत्यक्षं च परोक्षकम् । नित्यानित्यं जगत्सर्वं तत्त्वानि नव सप्त वा ।।३।। जीवाजीवी पुण्यपापे आश्रवः संवरोऽपि च। बन्धी निर्जरणं मुक्तिरेषां व्याख्याधुनोच्यते ॥४॥ चेतनालक्षणो जीवः स्यादजीवस्तदन्यक :। सत्कर्मपुद्गल: पुण्यं पापं तस्य विपर्ययः ।।५॥ आश्रवः कर्मसम्बन्धः कर्मरोधस्तु संवरः। कर्मणां बन्धनाद्बन्धो निर्जरा तद्वियोजनम् ।।६।। अष्टकर्मक्षयान्मोक्षो अन्तर्भावश्च कैश्चन। पुण्यस्य संवरे पापस्याश्रवे क्रियते पुनः ॥७॥ लब्धानन्तचतुष्कस्य लोकाग्रस्थस्य चात्मनः। क्षीणाष्टकर्मणो मुक्तिनिव्यावृत्तिजिनोदिता॥ ८॥ सरजोहरणा भक्ष्यभुजालम्बितमूर्धजाः। श्वेताम्बराः क्षमाशीला नि:संगा जैनसाधवः ।।९।। लुञ्चिताः पिच्छिकाहस्ताः पाणिपात्रा दिगम्बराः । ऊर्ध्वाशिनो गृहे दातुद्वितीयाः स्युजिनर्षयः॥ भुक्तेन केवली न स्त्री मोक्षगेति दिगम्बराः।
प्राहरेषामयं भेदो महान श्वेताम्बरैः सह।। इति जैनम्।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org