SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ १०० पुष्पोत्कटी तु सुषुवे मध्यमा राक्षसानिमान् । मदोहरं प्रहस्तं च महापार्श्व खरं क्रमात् ॥ मध्यमायास्तु नाकायास्त्रिशरादूषणो ऽपि च । विद्युज्जिह्वश्च तनयास्तेषामाषंटिका स्वसा ॥ कैकसी तु कनिष्ठा या सा रावणमजीजनत् । स एव राक्षसपतिर्दशग्रीवो हि रावणः ।। चतुःप्पाद्विशतिभुजो लंकेशो मानमन्दरः । रावणस्य भ्रातरी द्वी कुम्भकर्ण वि (वि) भीषणौ ॥ Jain Education International सू ( शूर्पणखा ऽस्य भगिनी सू (शू) पी सू (शू) र्पणखी च सा । मन्दोदरी च भार्या ऽस्य मयास्यतनया च सा ।। अथेन्द्रजिन्मेघनादः स च रावणनन्दनः । पुत्रस्तु वज्रबालायां कुम्भकर्णस्य दुर्मदः ।। विभीषणस्य तु सुतो धर्मज्ञायां दुरासदः । सुन्दपुत्रस्तु मारीचः सुबाहुस्तूपसुन्दजः ।। ताडका नु सुन्दपत्नी मारीचजननी च सा । प्रहस्तस्तु प्रतीहारः सेनापतिरलम्बुषः ।। सुतोऽस्य विश्ववलनो मन्त्रिणी शुकसारणी । अशोकafraterन क्रीडाभूम्यमरावती ।। चन्द्रहासः कृपाणोऽस्य सन्नाहस्तु विलोचकः । सन्दानिका तुंबfरली क्रीडासरस्तु जालकम् ।। अथ जैनसमयोक्तं देवरूपं । देवाश्चतुर्धा भवनपतयो व्यन्तरास्तथा । ज्योतिष्का वैमानिकाश्च दशधा भवनाधिपाः । आसुरा नागास्तडितः सुपर्णा वह योऽनलाः । स्तनिताब्धिद्वीपदिशः कुमारान्ता दशाप्यमी ॥ असुरकुमारास्तडित्कुमाराः, नागकुमाराः, सुपर्णकुमारा, अग्निकुमारा, वायुकुमारा, स्तनित्कुमारा, उदधिकुमारा, द्वीपकुमारा, दिक्कुमारा इत्येते पाताले रत्नमयभवनवासिनः कुमारवन्मर्त्यलोके क्रीडाकारिणः ॥ छ। व्यन्तराः पिशाचभूतयक्ष राक्षसकिन्नराः । किंपुरुषा : महोरगाः गन्धर्वाश्चाष्टधेत्यमी ॥ काव्यकल्पलतावृत्तिः - परिशिष्ट एते विविधेषु शैलकल्दरान्त वनविवरादिषु प्रतिवसन्ति । ज्योतिष्काः पञ्चविधेद्वर्कग्रहनक्षत्रतारकाः । वैमानिका द्वादशधा स्वस्वकल्पाभिधानतः । कल्पा सौधर्म ईशानस्तथा सनत्कुमारकः ॥ माहेन्दब्रह्मलान्तकशुक्रश्च सहस्रारकः । For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy