Book Title: Kavyakalpalatavrutti
Author(s): Amarchand Maharaj, R S Betai, Jitendra B Shah
Publisher: L D Indology Ahmedabad
View full book text
________________
काव्यकल्पलतावृत्ति:-परिशिष्ट
यस्याहुः शशिमच्छिरोहर इति स्तुत्यं च नामामराः ।
सो व्यादिष्टभुजङ्गहारवलयः त्वं सर्वदोमाधवः ।। दानवासुरदैत्यानामैक्यं यथा--
जयन्ति वाणाः सुरमौलिलालिताः दशास्यचुडामणिचक्रचम्बिनः । सूरा सुराधीशशिखान्तशायिनी भवच्छिदस्त्र्यम्बकयादपांश (स)वः ।।
यथा
च--
तं शंबरासुरशराहतशल्यभारकेयरत्नकिरणारुणबाहृदण्डम् ।
पानांसलग्नदयिताकुचपत्रभंङ्गं मीनध्वज जितजगतत्रितयंजयेत् कः।। यथा च । आसीत्यो हयग्रीव इति । यथा च--
हयग्रीवं प्रति-दानवाधिपते भयो भयोऽथ किन नीयते सहायतां कृतान्तस्य क्षयाभिप्रायसिद्धिषु ॥
यथा
च--
महासुरसमाजेऽस्मिन्न चैकोऽप्यस्ति सोऽसुरः । यस्य नाशं निनिष्णेषनीराजितमरःस्थलम् ।।
एवमन्येऽपि भेदा अभ्यूह्या : ॥छ।। स्त्रीणामित्यादि- शुक्लता यथा
तिष्ठन्त्या जनसंकुलेऽपि सुदशा सायं गृहप्राङ्गणे तवारं मयि निःसहालसतनौ वीषा मृदुः प्रेङखते । हीनाम्ना नयनैव लोलभरल नि:श्वस्य तत्रान्तरे
प्रेमार्दा शशिखण्डपीडिममुषो मुक्ता: कटाक्षच्छदाः ।। श्यामता यथा--
अथ पथि गमयित्वा रम्यक्लप्तोपकार्ये कतिचिदवनिपालः शर्वरीः शर्वकल्प । पुरमविशदयोध्यां मैथिलीदर्शनीना कुवलयितगवाक्षां लोचनैरङ्गनानाम् ।।
नानाम् ।।
कृष्णता यथा--
पादन्यासक्वणितरसनास्तत्र लीलावधूत रत्नच्छायाखचितवलिभिश्वामरैः क्लान्तहस्ताः । वेश्यास्त्वत्तो नखपदसुखान् प्राप्य वर्षाग्रबिन्दु
नामोक्ष्यन्ते त्वयि मधुकरश्रेणिदीर्घान् कटाक्षान्।। (मेघदत-पूर्व) शुक्लश्यामता यथा--
अदृश्यन्त पुरस्तेन खेला: खञ्जनपङक्तय. । अस्मर्यन्त (वि) निश्वस्य प्रियानयनविभ्रमाः ।। शुक्लकृष्णता यथा--
तामुत्तीर्य व्रज परिचितभ्रलता विभ्रमाणां पक्ष्मात्क्षेपादुपरिविलसत्कृष्णसारप्रभाणाम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454