Book Title: Kavyakalpalatavrutti
Author(s): Amarchand Maharaj, R S Betai, Jitendra B Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 363
________________ काव्यकल्पलतावृत्ति : परिशिष्ट हताशनो जलं व्याधिभिक्ष मरकस्तथा। इति पञ्चविध दैवं व्यसनं मानुषं परम् ॥ ॥छ।। देव्यमिति--वेणीधम्मिलादीनामुपमानान्यलङकाराभ्यासस्तबकतो ज्ञेयानि मन्त्रीपुरोहितसन्येष्वपि राजवर्णनोक्ता गणा औचित्यतो वाः । देशे इति--खन्यः खान्यो वज्रादीना, द्रव्याणि नाणकाणि, पण्यं वणिरत्यवहारः; धान्यान्यनेकप्रकाराणि, आकरा लवणादीनामुत्पत्तिस्थानानि । दुर्गाणि जलगिरिवनदुर्गादीनि। उक्तं च "अन्योन्यरक्षाखन्याकरद्रव्यहस्तिवनवान, नातिवृद्धनातिहीनग्रामश्च बहुसार विचित्र धान्यहिरण्योपपत्तिरदेवमातृकः पशुमनप्याहितः। श्रेणिशद्रकर्षकप्राय इति जनपदस्य' गुणाः। जनपदो देशस्तस्यैते गुणाः।"पूर्वोक्तो यस्मिन् देशोऽन्योन्यरक्षा भवति (तत्र); परस्परं लोका रक्षन्ति बहवः। सारा उक्त (त्त) मा पदार्था यत्र। अदेवमातृकोऽरि (?) घट्टबहुलः। पशवश्चतुष्पदास्तेषामनुकूलसुखावहः । श्रेणयः कुलानि, वर्णा म्लेच्छलुष्धकबहुलाः । स्वल्पासस्योत्पत्तिस्तरुफलाधार इति देशदोषाः ।।छ।।। मन्त्रति-कार्याणामारम्भोपायः १, पुरुषद्रव्यसम्पत् २, देशकालविभागः ३, विनिपातप्रतीकारः ४, कार्यसिद्धिश्चेति (५) पञ्चाङगा मन्त्रशक्तिः । षाड्गुण्योपाया पूर्व कथिताः । भूमिहिरण्यमित्राणां तिस्रः सिद्धयः । स्थानवृद्धिक्षयलक्षणास्त्रय उपायाः । स्थानं अनपचया वृद्धिः चयरहिता(:) तु साक्षयः । अश्वेति उच्चैःश्रवारवेरथ्यारेवं तेऽश्वस्य पूर्वजाः। पुरा सर्पकृता युद्ध छिन्नांहरपि सर्पणम् । चित्रज्ञत्वं हृद्वनावर्ती श्रीवक्षकी यः । पञ्चभद्रस्तु हृत्पुष्टसुखपार्वे तु पुष्पितः ।। पुच्छो (च्छौ) र. खुरकेशास्यै सितैः स्यादष्टमङ्गलः । धोरितं वल्गितं प्लुत्युत्तेजितोत्तिरितानि च । गतयः पञ्चधाराख्यास्तुरगाणां क्रमादिमाः।। तत्र धोरित्तकं धौर्य धोरण धोरित्तं च यत् । वर्धकङकशिखिक्रोडगतिवद्वलिंग तं पुनः ।। अग्रे कायसमुल्लासाकुञ्चितास्यं (च) ततत्रिकम् । प्लुतं तु लङधनं पक्षीमृगगत्या तु हारकम् ।। उत्तेजितं रेजित्य ४ स्यान्मा (म)ध्यवेगेन या गतिः । उत्तरे तमुपकण्ठमास्कन्दिकमिन्यतः ।। उत्प्लुत्येत्प्लुत्यगमनं कोपादेवाखिलैः पदैः ।। गजे इति गजः परपुरोन्मद्वीनद्वीलक्ष्मीनिकेतनम । कान्ताकुचाभकुम्भश्रीस्तरुशैलादिभेदकृत् ।। १. 'वित्तज्ञत्वं' सं.प. १, सं.प. २ २. 'धोरणाधोरितं' पा.प. १, पा.प. २ ३. 'गतिवल्गलितं' पा.प. १, पा.प. २ ४. 'रेचितं' सं.प. १, सं.प. २, दे.प. १ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454