Book Title: Kavyakalpalatavrutti
Author(s): Amarchand Maharaj, R S Betai, Jitendra B Shah
Publisher: L D Indology Ahmedabad
View full book text
________________
७८
काव्यकल्पलतावृत्ति:-परिशिष्ट
नीलोत्पलानी यथा--
गगनगमनलीलारम्भिताना स्वेदबिन्दुन मभिरनिलचारैः खेचराणां हरन्तीं ।
कुवलयवनकान्त्या जाह्नवीं सोऽभिपश्यत् दिनपतिसुनयेव व्यक्तदत्ताकपालीम् । एवं कुमुदाद्य (न्य? )पि। तिमिरेत्यादि। तिमिरस्य मुष्टिग्राह्यता यथा--
तन्तुलग्ना इव ककुभः क्षमावलयचरणचारमात्रमिव ।
चालिकदधनी मुष्टिं मुष्टिग्राह्यं तमः कुरुते ।। सूचिभेद्यं यथा--
पिहिते कारागारे तमसि च सूचीमुखाग्रदुर्भेद्ये ।
मयि च निमीलितनेत्र तथापि कान्ताननं व्यक्तम् ।। ज्योत्स्ना अञ्जलिग्राह्यतादि यथा
शङ्खद्रावितकेतकोरदलवः श्रोतःश्रियं बिभ्रती। येऽयं मौक्तिकदामगम्फनविधेर्योग्यच्छविः प्रागभूत ।
औत्सुक्याकलसीभिरञ्जलिपुटै ह्या मृणालाङकुरैः पातव्या ( च ) शशिन्यमग्धविभवे सा वर्तते चन्द्रिका।। शुक्लत्वेत्यादि। यशसो शौक्ल्यं यथातमः स्तोकोऽपि नाग्रे श्वसितमविकलं चक्षुषां सैव वृत्ति
मध्ये क्षीराब्धिमग्नाः स्फुटमथ च वयं को ऽयमीदृक् प्रकारः । इत्थं दिग्भित्तिरोधः क्षतविसरतया मांसलत्वाद्यशोभिः
स्तोकावस्थानदुस्थैस्त्रिजगति धवले विस्मयं ते मृगाक्ष्यः ।। हास्यस्य यथा
अट्टहासच्छलेनास्याद्यस्यकेनौघपाण्डुराः। जगत्क्षय इवापीता: क्षरन्ति क्षीरसागराः ।। दुष्कीर्तेः कायं यथा--
प्रसरन्ति कीर्तयस्ते तव च रिपूणामकीर्तयो युगपत् । कुवलयदलसञ्चलिताः प्रतिदिशमिव मालतीमालाः ।
हत्वोरं ते स्तनौष्ठेषु स्पष्टमन्ते कृतध्वनिः । अव्यक्तरेखं रोमाञ्चकारिच्छुरितकं तु तत् ।। पापस्य यथा--
उत्खातनिर्मलकृपाणमयूखलेखाश्यामाचिता तनुरभूदृशकन्धरस्य ।
सद्यः प्रकोपकृतकेशववंशनाशसंकल्पसंजनितपापमलीमसेव ।। प्रतापे रक्तौष्ठता यथा--
यदरिद्विषां कवलयन्महो महद्विय दङगणे कवलमाद्यमक्षिपत्। तमहो महोत्सामहिमच्छविच्छला अधुना पलाययति कालवायसः ।
१. 'लम्भितान्' सं १, सं २ २. 'चालक-पा. १
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454