Book Title: Kavyakalpalatavrutti
Author(s): Amarchand Maharaj, R S Betai, Jitendra B Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 374
________________ काव्यकल्पलतावृत्तिः परिशिष्ट ७७ पुनरेव ततस्तस्या बाह्यान्तरतक्रमैः। अनुरागी रताभिज्ञः कुर्वातोपक्रम युवा।। इत्थमुक्तप्रकारेण दम्पत्यो रममाणयोः। भावसम्भावितस्नेहो वृद्धिमाप्नोत्यहनिशम् ।। इत्याभ्यन्तररतं वात्स्यायनप्रभृतिशास्त्रपरम्पराभ्यः काव्योपकारकरणं रतिसारमेतत् ।। श्री वायटीयगणभृज्जिनदत्तसूरिशिष्याग्रणीरमरचन्द्रमुनिलिलेख ।। इति श्री वायटगच्छीय श्रीजिनदत्तसूरिशिष्यपण्डित श्रीमदमरचन्द्रविरचिते स्वोपज्ञकाव्यकल्पलता वृत्तिविवचने पारमलनाम्नि वर्ण्यस्तबकोल्लासी राजादिवर्ण्य स्वभावविभावनो दशमः प्रसरः ।। अन्यत् पुरुषस्त्रीलक्षण गजलक्षणंमश्वलक्षणरत्नपरीक्षादिकं च मृत्कृवकालाकलापाद् विज्ञेयम् । अत्र ग्रथ ३६५ छ।। अथ कविसमयः । आर्ष परम्परायतमशास्त्रीयमलौविकम् । बध्नन्ति कवयोऽयं स कवीनां समयो मतः। प्रमाणं कविसमयो वस्तुवत्तिस्तु न कवचित् । असतोऽपीत्यादि। जात्यादेः जातिद्रव्यगणक्रियादिः। जात्यादेरसतोऽपि निबन्धेन, जात्यादेः सतोऽप्यनिबन्धेन, जात्यादेनियमेनातिप्रसक्तस्यावधारणेन ॥छ। रत्नादीत्यादि-- आदिशब्दात् सुवर्णादिवत् । तत्र पर्वते रत्नानि यथा नीलाश्मरस्मि (श्मि) पटलानि सहेभमुक्तसीत्कारशीकरविसृजि तटान्तरेषु । आलोकयन्ति सरलीकृतकण्ठमाला सानन्दमम्बदधियात्रा मय रनार्यः ।। सुवर्ण यथा नागावासश्चित्रपोताभिरामः स्वर्णस्फातिव्याप्तदिक्चक्रवालः। साम्यात् सख्यं जग्मिवानंम्बुराशेरेष ख्यातस्तेन जीमूतभर्तुः ।। जलाशयमावहं यथा-- आसीदस्ति भविष्यतीह च जनो धन्यो धनी धार्मिको यः श्रीकेशवक्त् करिष्यति पुनः श्रीमत्कुडङ्गेश्वरम् । हेलादोलितहंससारसजलकेंकारसम्मूर्छितै रित्याद्योषयतीव तन्नवनदी यच्चेष्टितं वीचिभिः ।। नभो नद्यां जलगजा यथा-- तन्मदायचदृशामगोचरः सांद्रमंदमुरजस्वनस्पृशा। सौरमौरजिकराजयो ययुर्वारिवारणगणाऽस्य गजिषु ।। नदीषु पद्यानि यथा दी/कुर्वन् पटुमदकलं कूजितं सारसानां प्रत्यूषेषु स्फुटितकमलामोदमैत्रीकषायः । यत्र स्त्रीणां हरति सुरतग्लानिमङ्गानुकूलः शिप्रावात: प्रियतम इव प्रार्थनाचाटुकारः।। (मेघ.पू.) ६९. 'सुपर्णादयश्च' पा.प. १। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454