________________
काव्यकल्पलतावृत्तिः परिशिष्ट
७७
पुनरेव ततस्तस्या बाह्यान्तरतक्रमैः। अनुरागी रताभिज्ञः कुर्वातोपक्रम युवा।। इत्थमुक्तप्रकारेण दम्पत्यो रममाणयोः। भावसम्भावितस्नेहो वृद्धिमाप्नोत्यहनिशम् ।। इत्याभ्यन्तररतं वात्स्यायनप्रभृतिशास्त्रपरम्पराभ्यः काव्योपकारकरणं रतिसारमेतत् ।।
श्री वायटीयगणभृज्जिनदत्तसूरिशिष्याग्रणीरमरचन्द्रमुनिलिलेख ।। इति श्री वायटगच्छीय श्रीजिनदत्तसूरिशिष्यपण्डित श्रीमदमरचन्द्रविरचिते स्वोपज्ञकाव्यकल्पलता वृत्तिविवचने पारमलनाम्नि वर्ण्यस्तबकोल्लासी राजादिवर्ण्य स्वभावविभावनो दशमः प्रसरः ।। अन्यत् पुरुषस्त्रीलक्षण गजलक्षणंमश्वलक्षणरत्नपरीक्षादिकं च मृत्कृवकालाकलापाद् विज्ञेयम् । अत्र ग्रथ ३६५ छ।।
अथ कविसमयः । आर्ष परम्परायतमशास्त्रीयमलौविकम् । बध्नन्ति कवयोऽयं स कवीनां समयो मतः। प्रमाणं कविसमयो वस्तुवत्तिस्तु न कवचित् । असतोऽपीत्यादि।
जात्यादेः जातिद्रव्यगणक्रियादिः। जात्यादेरसतोऽपि निबन्धेन, जात्यादेः सतोऽप्यनिबन्धेन, जात्यादेनियमेनातिप्रसक्तस्यावधारणेन ॥छ।
रत्नादीत्यादि-- आदिशब्दात् सुवर्णादिवत् । तत्र पर्वते रत्नानि यथा
नीलाश्मरस्मि (श्मि) पटलानि सहेभमुक्तसीत्कारशीकरविसृजि तटान्तरेषु ।
आलोकयन्ति सरलीकृतकण्ठमाला सानन्दमम्बदधियात्रा मय रनार्यः ।। सुवर्ण यथा
नागावासश्चित्रपोताभिरामः स्वर्णस्फातिव्याप्तदिक्चक्रवालः।
साम्यात् सख्यं जग्मिवानंम्बुराशेरेष ख्यातस्तेन जीमूतभर्तुः ।। जलाशयमावहं यथा--
आसीदस्ति भविष्यतीह च जनो धन्यो धनी धार्मिको यः श्रीकेशवक्त् करिष्यति पुनः श्रीमत्कुडङ्गेश्वरम् । हेलादोलितहंससारसजलकेंकारसम्मूर्छितै
रित्याद्योषयतीव तन्नवनदी यच्चेष्टितं वीचिभिः ।। नभो नद्यां जलगजा यथा--
तन्मदायचदृशामगोचरः सांद्रमंदमुरजस्वनस्पृशा।
सौरमौरजिकराजयो ययुर्वारिवारणगणाऽस्य गजिषु ।। नदीषु पद्यानि यथा
दी/कुर्वन् पटुमदकलं कूजितं सारसानां प्रत्यूषेषु स्फुटितकमलामोदमैत्रीकषायः । यत्र स्त्रीणां हरति सुरतग्लानिमङ्गानुकूलः शिप्रावात: प्रियतम इव प्रार्थनाचाटुकारः।।
(मेघ.पू.) ६९. 'सुपर्णादयश्च' पा.प. १।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org