________________
काव्यकल्पलतावृत्ति : परिशिष्ट न बहित्यिता दन्तैरशस्त्रधीर्दशेन्त् । धत्ते यतः परांशोभामीषल्लक्ष्यकृत हितम् ।। दशनोष्ठस्तु संयुक्तरभ्यासाद्गण्डयोः कृतम् । प्रवालमणिरूपं यत् प्रवालमणिरेव सः ॥ मणिमालावद्दशनद्वन्द्वानोत्थाक्षतावलिः । मणिमाला गलत्कक्षा सवंक्षणोरुष सोचिता ।। दन्तक्षतानां बिन्दवाकाराणां मालिका भवेत् । सा बिन्दुमाला वक्षोजकक्षालातोवंक्षणे ।। यत् खण्डाभ्रबद्दन्ताग्रलेख्यं विषमकूटयुक् । स्तनयोर्मण्डलाकारं मतं खण्डाभ्रक तु तत् ॥ दीर्धास्ताम्रान्तरा बह्योरेखा दन्तक्षतोद्भवाः । वराहचचितं प्राहस्तन्नारीस्तनमण्डलम ।।
नवसङ्गे प्रकोपान्ते प्रवासे पुनरागमे । योज्यं वा मदमत्तासु कर्मदन्तनखोद्भवम् ।। इति दशनरतक्षतानि । इति बाह्यरतानि ।
यथासाम्यं यथायोगं बाह्य कृत्वाऽखिलं रतम् । प्रिया याः प्राप्तभावायास्ततो नीवी विमोक्षयेत । अतः शास्त्रान्तरे ज्ञेयं नरैराभ्यन्तरं रतम् । अत्रैपावसरे कुर्यात् स्त्रीणां प्रशणनं नरः ।। सम्ङोचितावहास्ताभ्यां कामी प्रसृत केन च । मुष्टिच्छयसरल श्च स्त्रीणां प्रहणनं सृजेत् ॥ सङोचितं सक्डोचिताखिलाङ्गलिकरेण तु । अवहस्तो हस्तपृष्ठं किञ्चन प्रसृतांग लिः ।। (तत्:) प्राहुः प्रसृतं प्राज्ञा समो हस्तः प्रसारितः । मुष्टिर्मनीषिभिः प्रोक्त पाणि सं पिं ।। साच्छटा मध्यमाङ्गल्या ताडनं यद्विधीयते । सरल: सरलीभूत सर्वाङ्ग लिधरः करः ॥ मौलिभालं कपोलौ च वक्षोजद्वितयान्तरम् । पृष्ठं जघनभागश्च स्थानं प्रहणनस्य तु ॥ कामिना क्रियमाणे तु तस्मिन् प्रहणनं तदा। कुर्वीत कान्ता सीत्कारं हित्कृति तथा ।। पूत्कृतं श्वसितं व्याजरुदितानि च कूजितम् । निवारणालमर्थाश्च मोक्षार्थान् विविधान् (र) तान् । युग्मं कामुकोऽपि ततः कुर्यात् पारापतशुकार (न? )वान् । षडंहितहंसहारीत्खकोकिला खकारवान् ।। सँकोचितेन तां मूनि विवदन्ती तु ताडयन् । मनोहराणि कुर्वीत कूजितादीनि साऽपि तत् ॥ अवहस्तेन प्रहरेत् कामीकुचयुगान्तरे । हित्कारप्रभृतीन् शब्दान् तत्र कुर्वीत कामिनी ।। दाक्षिणात्याःकुरङ्गाक्षाः (क्ष्याः) कन्दर्पोद्दाममानसाः । पाषाणगोलकाद्यैश्च ताडनीया हृदन्तरे ॥ जघनस्थलपार्श्वे स्त्री ताडया प्रसृतकेन वा। पृष्ठे कोडोपविष्टाया मुष्टिना प्रहरेत् पुनः ।। छटया ताडयेद्भाले सरलेन कपोलयोः। कूजिते कूजितं कुर्याद्रुदिते रुदितं पुमान् ।। यदा मृद्वी मृगाक्षी स्यादृढः कामी तदा हृदि। ध्यायेत् तस्या गुणान् प्रीतिमात्मनो मार्दवेच्छया।। अथाऽन्यस्या स्त्रियो देहे सौंदर्यवरविभ्रमान्। स्मारं स्मारं रताभिज्ञः कुर्यान्मार्दवमात्मनः ।। दृढः स्यात् पर्वतोद्याननद्यादिध्यानतः सुधीः। वानरं वा स्मरेद्दक्षः शाखि शाखावलम्बितम् ॥ इत्थमन्यमनस्कत्वाद्भवेत् कामी चिरं दृढः । इत्थं कुर्यात् तथा कामी द्रुतिसौख्यं समं यथा ॥ एवं गाढानुरक्ता स्त्री नेतरं नरमिच्छति । या श्र (स्र?) स्तावयवा त्यक्तलज्जा संमीलितेक्षणा। लीनाङ्गे कामिनः संकोचिताङ्गी कूणितानना। ध्यानस्थेव विषण्णेव चिरं संम्मूर्च्छितेव च। स्थिरा च स्मारशीघ्रजर्जेया वृत्तेतिसङ्गता। युग्मम् ।। रदैः खादति हस्ताग्र धुनाति स्वेदमुद्हेत् । न ददाति समुत्थानं वचो ब्रूते च निष्ठुरम् ।। सकोपा हन्ति पादेन विलप्पति नखैः प्रियम्। रतावसाने या नारी स्मरतप्ता न सा ध्रुवम् ॥युग्म
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org