SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ काव्यकल्पलतावृत्तिः -परिशिष्ट आरोहे चुम्बनादीच्छुर्जघनालिङ्गनं तु तत् । प्रियोरसि स्तनौ न्यस्य तत्रैवावेशयेत् पुनः. ।। सर्वाङ्गस्य भरं यत्र तत्स्ननालिङ्गनं मतम् । आस्थामास्येद् दशोऽन्यस्य दृश्यौ श्लिष्यति वल्लभा ।। ललाटेन ललाटं यत् ज्ञेयं लालाटिकं तु तत् । इत्यालिङ्गनानि । भालनेत्रकपोलौष्ठनासिकाग्रमुखान्तरम् । कण्ठस्तनावुरश्चेति चुम्बनस्थानकानि तु । तथा कर्णाटलाटानां कक्षा नाभ्यूरुसन्धयः ।। इति चुम्बनानि । ओष्ठौ शिरः स्तनौ वक्षो नाभिमदनमन्दिरम् । स्मरस्थ स्थानकान्यष्टौ स्पर्शनीयानि कामिना ।। भ्रूतालुनेत्र कौँ ष्ठ मध्यनासाग्रचूचुके । पाण्यं हि दन्तमूले च जिह्वाग्रे भ्रमणं सृजेत् ॥ इति स्पर्शना पार्श्वद्वये स्तनतट कण्ठे वक्षासिकक्षयोः / नाभौ बस्तितटे पृष्ठे स्फिक् पिण्डजघनोरुषु ।। नरपक्षतानि देयानि कुशलैः स्मरदीप्तये । अङ्ग ष्ठाग्रेण संरुद्धैर्घटनारिवलैः ॥ हत्त्वोरं ते स्तनौष्ठेषु स्पष्टमन्ते कृतध्वनिः । अव्यक्तरेखं रोमाञ्चकारिच्छुरितकं तु तत् ॥ कन्धराकुचकण्ठेषु नखाङ कुटिलो बुधैः । देयः स त्वर्द्धचन्द्राख्यः कामशास्त्रविदां मतः ।। उभावभिमुखौ तौ तु मण्डलं मुनिनोदितम् । तच्च योज्यमुरुसन्धभगमूनि कुकुन्दरे ।। रेखाकारो नखाङको य: सा रेखा वितुदुना मता । स्थानेषु सकलेष्वस्थ नातिदीर्धं प्रयोजनम् ।। सैव वक्राग्रतो रेखा ख्यातं व्याघ्रनखं तु तत् । नखास्थानेषु सर्वेषु तत्प्रयुजीत कामुकः ।। कुचोपरि चलाक्षीणां या रेखा पञ्चभिर्नखैः । चूचुकाभिमुखं कृत्वा मयूरपदकं हि तत् ।। नखक्षतानि क्लृप्तानि पञ्चासन्नानि कामिनाम् । कान्तानां चूचुकद्वन्द्वे शशकप्लुतकं तु तत् ॥ नखक्षतानि चोत्पवपत्राकाराणि योषितां । कांचीमार्गेऽथ कुचयोस्तत् स्यादुत्पलपत्रकं ।। प्रवसन् कुचनोरूवोः कामी कुर्वीत सुभ्र वां । नखलेखास्त्रिचतुरस्तद्धि योगातियापकाः ।। इति नखक्षानि । पझोपरि गण्डयुगे भाले कण्ठधरौष्ठयोः । वक्षसि स्ननयोः कक्षान्तरे दन्तक्षतं सृजेत् ॥ रक्तत्वमात्रलथं यन्मूढकं तद्रदक्षतं । तदेव शेषसंयुक्त मुचुनकमुदाहृतम् ।। दन्तद्वयाग्रदशनावृतद्विन्दु बिन्दुसन्निभः । कपोलेधरमध्ये च द्वयमेतत् प्रयोजयेत ॥ ६५. 'चूचके --दे. प. । ६६. जिह्वाग्रभम --सं, प. २, सं. प. २ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy