________________
काव्यकल्पलतावृत्तिः -परिशिष्ट
शेते पराङमुखी पूर्व पश्चादुत्तिष्ठते पुनः । कृतं न मन्यते किञ्चिद्द कृतं च प्रधुष्यति ॥ विक्षेपवचनं बातेदोषान् वक्ति सखीपुरः । व्यसने मुदमाप्नोति प्रवासे तु प्रहृष्यति ॥ अमित्रस्तनुते प्रीति मित्रद्वेषमुपेत्यलम् । विरक्ता लक्षणरेभिर्लक्ष्या योषिद्विचक्षणः ॥छ।। त्रिप्रकारं रतं ज्ञेयं बाह्यमाभ्यन्तरं तथा । बाह्यमालिङ्गनाद्यं स्यात् द्वादशालिङ्गनानि च ॥ स्पष्टकं विद्धकं चैव तथा मृष्टकपीडिते । लतावेष्टितवृक्षाधिरूढे तिलतन्दुलम् ।। क्षीरनीरोरूपगढे च जघनालिङ्गनं तथा । वक्षोजालिङ्गतं लालाटिकं च द्वादशं मतम् ।। अजातरत्यो स्याद्भावबोधायाद्यं चतुष्टयम् । स्पष्टकं व्याजत: स्पर्शो मार्गे सम्मखयोमिथः ।। नरं यद्गृह णती किच्चिदुपविष्टमथ बोधितम् । विध्येत्स्तनाभ्यां तां सोऽपि गाढं गृहाणाति विद्धका ।। यदत्सवादी ध्वान्ते वा गच्छतोरङ्गसङ्गमः । तदुद्धृष्टं तदेव स्यात् पीडितं कुड्यपीडनात् ॥ आपूरत्या रागवृद्धयं स्युरष्टालिङ्गनानि तु ।' अधिकृत्य स्थित कान्तां तत्राद्यालिङ्गनद्वयम् ।। कण्ठालं विभुजा कान्तं वेष्टयन्ती लतेव यत् । नमयित्वा मुखं चुम्बेत् तल्लतावेष्टितं मतम् ।। प्रियाहिम हिणकेन तदूरुमपरेण च । आक्रम्यकं भुजं कृत्वा तत्पृष्टेऽन्य तदंशगम् ।। चुम्बनार्ता ससीत्कारं यत्र वाच्छन्ति वल्लभा । प्रियं वृक्षमिवारोढुं तत्स्यावृक्षादिरूढकम् ॥ सुप्तोपविष्टसंश्लेषप्रकाराः षट् भवन्ति तु । मिथनं यत्र पार्श्वस्थ स्पर्द्धयैव भजादिभिः ।। मिथेऽङ्गे लीयते बाढं तद्भावेतिलतन्दुलम् । ॲके तल्पे वाभिमुखं स्थित यन्मिथुनं मिथः ।। आश्लेषाद्विशती वाङग क्षीरनीरं वदन्ति तत् । निजोरुद्वन्द्वसंदेशात् प्रियोरुद्वन्द्वपीडनम् ।। प्रयेण क्रियते यत्र तत् स्यादुरूपगूढकं । जघनेन प्रिया यत्र निष्पीड़य जघनं प्रियां ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org