________________
काव्यकल्पलतावृत्तिः - परिशिष्ट
उक्तं च---
सुलभा प्रार्थना वालचुम्बनालिङ्गनानि च । सखीकण्ठग्रहः श्वासावासः संयमनं मुहुः || दर्शनं हस्तमुद्राणां भ्रूविक्षेपः प्रियं वचः । अङ्गलस्फोटनं स्वीयपाणिना स्तनपीडनम् ॥ नखैविलिखनं भूमेस्तूणच्छेदो रहः स्पृशा । व्याजा कुतोऽपि तस्यान्ते चिरं संश्रयति स्थितिम् ।। मा पश्यत्विति यत्किंचित् व्याहरत्युच्चकैस्तथा ॥ कासितं वा करोत्युच्चैः किंचिद् वीक्ष्यान्तिके हसेत् ॥ सदा पश्यति यत्रासौ तत्र व्याजकथाः सृजेत् । न दत्ते दर्शनं तस्यानलङ्कारान् कदाचन ॥ पुष्पादिभिर्निहत्येनं सख्याः श्रोणि स्पृशत्यपि । समं तत्परिवारेण प्रीतिद्यूतं कथां सृजते । कति नार्यः प्रिया कास्य तल्लोकमिति पृच्छति ॥ शय्यासने स्वयं याति गुह्यस्पर्शे प्रहृष्यति । प्राक् चुबति तथा श्लिष्येतद्वाक्यान्यनुवर्त्तते ।। सखीनां पुरतो वक्ति परोक्षे तद्गुणावलीम् । श्रुत्वा दुष्यति तद्वात् प्रीता पृच्छेत् पुनः पुनः ॥ तस्थाद्वेषिणिद्वेषं मित्र प्रीति करोत्यलम् । तद्याते दुर्मनका स्याद्दह्यते विरहाग्निना ॥
Jain Education International
ःखे दुःखिनी तस्य सुखे च सुखिनी भवेत् । नित्यं प्रेषयते तस्मै पदार्थानतिशोभनान् ॥ भावानुरक्तां जानीयाच्चिह नैरेभिनितम्बिनीम् । रसिको रमयेन्नारी रागवाननुरागिणीम् ॥ निपुणा वर्जयत्येव दूरतः परिवर्जितम् ।
एतत्कामफलं लोके यद्द्द्वयोरेकचित्तता । अन्यचित्तकृतः कामः शबयोरिव सङ्गमः ॥ छ ॥
अथ विरक्तस्त्रीलक्षणानि ।
पश्यत्यभिमुखं नैव संयोगेऽतीव सीदति । असौम्यनेत्रवदना स्पृष्टाङ्गा निधुनोति च ॥ करोत्युक्ता कथाभङ्गं दृष्टा वदति निष्ठुरम् ॥ नान्यासक्त्या करोतीत्थं तस्मात्मानं च नेच्छति ॥ अस्थाने कुरुते कोपं वदनं माष्टि चुम्बिता । वराङ्गं छादयेत् स्पर्शे रते क्लेदमुपैति न ||
For Private & Personal Use Only
www.jainelibrary.org