________________
७२
काव्यकल्पलतावृत्ति : परिशिष्ट
साधारणरतिक्रीडा न मदुर्नेह ट्टा रतौ। मृदुमांसलशीतलगुह्मा निद्राप्रिया भवेत् ।।
॥चतुभिः कलापकम् ॥
श्लेष्मप्रकृतेः कुर्यात्सद्भावप्रेमविस्मयम् । सानन्दं मधुरं सत्यं वचनं च सदा वदेत् ।। चुम्बनालिङगनाघातनखदन्तक्षतानि च।
साधारणानि कुर्वीत शीतमुष्णान्वितं तथा ।। इति प्रकृतयः। अथ सत्त्वानि--
देवसत्त्वा प्रसन्ना स्यात्कायोऽस्या: सुरभिम दुः। नसत्त्वा सरला दक्षा नोपवासश्च खिद्यते ।। नागसत्त्वा भ्रान्तिशीला बहु श्वसिति जम्भते । यक्षसत्त्वा त्रपाहीना कोपनोद्यान केलिधीः ।।
सा तु गन्धर्वसत्त्वा या कलासु कुशलाशया। अरोषादित्यवेषस्रक्गन्धसंगीतकप्रिया। पिशाचसत्त्वा निर्माना मद्यमांसाधनल्पभुक् । काकसत्त्वा विलोलाक्षी सोद्वेगात्यशनातिभाक् ।। कपिसत्त्वा चलस्वान्ता नखदन्तरणप्रिया।
खरसत्त्वा विराधातसक्ता विप्रियवाग्रता ।। इति सत्त्वानि ।
प्राधान्यं प्रकृतेर्जात्यादिषु तत्त्वं त्विदं पुनः । श्यामश्लेष्मप्रकृतिका मृगी वा वडवाथवा ।। मरगन्धर्वगीर्वाणयक्षसत्त्वाथ बालिका। नव्यसम्भावितारुण्या रहस्य कामिनां परम् ।। नव्यज्वरवती नृत्तश्लथाङगी मार्गविक्लवा।
मासैकप्रसवा नारी काम्या षण्मासगर्भिणी॥छ।। अथानुरक्तस्त्रीलक्षणानि--
प्रियं प्रेक्ष्य महान् हर्षो मुखनेत्रप्रसन्नता। अपूर्ण सास्मितं गुप्तं सततं वा विलोकनम् ।। हस्तांहिहृन्मुख स्वेदः कम्पाङ्गे गद्गदं वचः । नाभीपार्श्ववलिश्रोणिः स्तनमण्डलदर्शनम् ।। नीवीस्रेसनजृम्भाङ्गभङ्गोष्ठस्पन्दनानि च । कण्डयनं श्रवणयो रोमाञ्चः कचमोक्षणम् ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org