Book Title: Kavyakalpalatavrutti
Author(s): Amarchand Maharaj, R S Betai, Jitendra B Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 362
________________ काव्यकल्पलतावृत्ति:-परिशिष्ट महामात्ये इति। अत्रापि नयादयो राजवत ज्ञेयाः । उक्तं चास्मद्गुरुभिः श्रीजिनदत्तसुरिभिविवेकक्लिासे । स्वामिभक्तो महोत्साहः कृतज्ञो धार्मिकः शुचिः । अकर्कशः कुलीनश्च स्मृतिज्ञः सत्यभाषकः । विनीत. स्थललक्षश्चाव्यसनो वृद्धसेवकः । अक्षुद्रः सत्त्वसम्पन्नः प्राज्ञः शूरोऽचिरक्रियः । राजा परीक्षितः सर्वोपधासु निजदेशजैः। राजार्थस्वार्थलोकार्थकारको नि:स्पहः शमीः ।। अमोघवचन: कल्पः पालिताशेषदर्शनः । पात्रौचित्येन सर्वत्र नियोजितपदक्रमः ।। आन्वीक्षिकीत्रयीवादिण्डनीतिकृतश्रमः । क्रमागतो वणिकपुत्रः सव्यो मन्त्री न चाऽपरः । पञ्चभिः कुलकम ।। तथा च महाभारते सभापर्वणि क्वचिदध्याये-- अमात्या-नुपधातीतपितृपैतामहान् शुचीन् । श्रेष्ठान श्रेष्ठेषु कश्चित्त्वं नियोजयसि कर्मसु । धर्मोपधा-अर्थोपधा-कामोपधा भयोपधातुसु निव्यूढः ।।छ।। पुरोहिते स्मृतिरिति । मन्य 1 त्रि 2 विष्णु 3 हारीत 4 याज्ञवल्क्य (ल्क्यो) 5 शनों 6 गिरा, 7 यमा 8 पशुं च 9 संवर्ता 10 कात्यायन 11 बृहस्पती 12 परास (श) र 13 व्यास 14 शङ्खलिखिता 15 दक्ष 16 गीतमौ 17 शातातपो वशिष्ट (सिष्ठ)श्च 18 धर्मशास्त्रप्रयोजकाः। श (शा)तातपो वशिष्ट (सिष्ठ)स्तत्कृतिः। तथा शङ्खलिखितौ भ्रातरौ ताभ्यां कृता स्मृतिः एवं अष्टादशास्मतिकर्तारः ॥छ।। ब्राह्मण्यं वाण्यं च वैष्णव्यं शैवं भागवतं तथा । स्कांदं त्रयोदशं तेषां वामनं च चतुर्दशम् ।। कौयं पञ्चदशं तद्वत् षोडशं मत्स्यनिर्मितम् । सप्तदशं गारुडं च ब्रह्माण्डं च तथापरम् ।। अष्टादश पुराणानि स्मृतानि मुनिभि पुरा ।। तथा च सोमनीत्या पुरोहितमुदितदिकुलशीलं षडङ्गे वेदे दैवे निमित्त दण्नीत्यां चाभिविनीतमापदां दैवीनां मानुषीणां च प्रतिकर्तारं कुर्वीत । दैवे ज्योतिःशास्त्रे निमित्ते उत्पादनदर्शने। तथा च शुक्र:-- दिव्यान्तरिक्षभीमानां उत्पातानां प्रशान्तये। तथा सर्वापदां चैव कार्यो भूपैः पुरोहितः ।। अमानुषोऽग्निरवर्षमतिवर्ष मरकः, शस्योपधाते जन्तूत्सर्गो व्याधिभूतपिशाचशाकिनीसर्पव्यालमूषकाः क्षभिश्वेत्यापदः । अमानुषोऽग्निविद्युत्पातः, मरक: प्रचुरजनमृत्युः, शस्योपिधातः, शलभादिभिः जन्तूत्सर्गो मानुषपरित्यागो विक्रयो वाएता जनस्यापदो दैविका मानुष्यश्च ।। दैविकाग्राहवैषम्याज्जाताः मानुष्यः शत्रुप्रभृतिभ्यो जाता:-- १. “जन्तूत्सर्गी . . . .मानुष्यः” इदं पा.प. १ पुस्तके नास्ति। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454