________________
काव्यकल्पलतावृत्ति:-परिशिष्ट
महामात्ये इति। अत्रापि नयादयो राजवत ज्ञेयाः । उक्तं चास्मद्गुरुभिः श्रीजिनदत्तसुरिभिविवेकक्लिासे । स्वामिभक्तो महोत्साहः कृतज्ञो धार्मिकः शुचिः । अकर्कशः कुलीनश्च स्मृतिज्ञः सत्यभाषकः । विनीत. स्थललक्षश्चाव्यसनो वृद्धसेवकः । अक्षुद्रः सत्त्वसम्पन्नः प्राज्ञः शूरोऽचिरक्रियः । राजा परीक्षितः सर्वोपधासु निजदेशजैः। राजार्थस्वार्थलोकार्थकारको नि:स्पहः शमीः ।। अमोघवचन: कल्पः पालिताशेषदर्शनः । पात्रौचित्येन सर्वत्र नियोजितपदक्रमः ।। आन्वीक्षिकीत्रयीवादिण्डनीतिकृतश्रमः । क्रमागतो वणिकपुत्रः सव्यो मन्त्री न चाऽपरः । पञ्चभिः कुलकम ।। तथा च महाभारते सभापर्वणि क्वचिदध्याये-- अमात्या-नुपधातीतपितृपैतामहान् शुचीन् । श्रेष्ठान श्रेष्ठेषु कश्चित्त्वं नियोजयसि कर्मसु । धर्मोपधा-अर्थोपधा-कामोपधा भयोपधातुसु निव्यूढः ।।छ।। पुरोहिते स्मृतिरिति । मन्य 1 त्रि 2 विष्णु 3 हारीत 4 याज्ञवल्क्य (ल्क्यो) 5 शनों 6 गिरा, 7 यमा 8 पशुं च 9 संवर्ता 10 कात्यायन 11 बृहस्पती 12 परास (श) र 13 व्यास 14 शङ्खलिखिता 15 दक्ष 16 गीतमौ 17 शातातपो वशिष्ट (सिष्ठ)श्च 18 धर्मशास्त्रप्रयोजकाः। श (शा)तातपो वशिष्ट (सिष्ठ)स्तत्कृतिः। तथा शङ्खलिखितौ भ्रातरौ ताभ्यां कृता स्मृतिः एवं अष्टादशास्मतिकर्तारः ॥छ।। ब्राह्मण्यं वाण्यं च वैष्णव्यं शैवं भागवतं तथा । स्कांदं त्रयोदशं तेषां वामनं च चतुर्दशम् ।। कौयं पञ्चदशं तद्वत् षोडशं मत्स्यनिर्मितम् । सप्तदशं गारुडं च ब्रह्माण्डं च तथापरम् ।।
अष्टादश पुराणानि स्मृतानि मुनिभि पुरा ।। तथा च सोमनीत्या पुरोहितमुदितदिकुलशीलं षडङ्गे वेदे दैवे निमित्त दण्नीत्यां चाभिविनीतमापदां दैवीनां मानुषीणां च प्रतिकर्तारं कुर्वीत । दैवे ज्योतिःशास्त्रे निमित्ते उत्पादनदर्शने। तथा च शुक्र:--
दिव्यान्तरिक्षभीमानां उत्पातानां प्रशान्तये।
तथा सर्वापदां चैव कार्यो भूपैः पुरोहितः ।। अमानुषोऽग्निरवर्षमतिवर्ष मरकः, शस्योपधाते जन्तूत्सर्गो व्याधिभूतपिशाचशाकिनीसर्पव्यालमूषकाः क्षभिश्वेत्यापदः । अमानुषोऽग्निविद्युत्पातः, मरक: प्रचुरजनमृत्युः, शस्योपिधातः, शलभादिभिः जन्तूत्सर्गो मानुषपरित्यागो विक्रयो वाएता जनस्यापदो दैविका मानुष्यश्च ।। दैविकाग्राहवैषम्याज्जाताः मानुष्यः शत्रुप्रभृतिभ्यो जाता:-- १. “जन्तूत्सर्गी . . . .मानुष्यः” इदं पा.प. १ पुस्तके नास्ति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org