________________
(२२४
काव्यकल्पलतात्तिः
३. मिश्राख्या:1४ । यामाः प्रहराश्चत्वारः। सेनाङ्गानि गजा १ श्व २. रथ ३. पदातयः ४.। दण्डहस्ताश्चत्वारः चतुभिर्हस्तैर्दण्डस्य मीयमानत्वात्। महाजनष्ठिवणिजश्चत्वारः। दशरथपुत्राः रामलक्ष्मणभरतशत्रुघ्नलक्षणाः। उपायाः सामदानभेददण्डलक्षणाः । ध्यानानि आर्त १. रौद्र २. धर्म ३. शक्ल ४. रूपाणि । कथाः दमयन्ती १. हर्षाख्या २. कादम्बरी ३. वासवदत्ता ४. रूपाः । अभिनयाः सात्त्विक १. कायिक २. वाचिका ३. हार्यरूपाश्चत्वारः। रीतयो वैदर्भी १. पांचाली २. लाटीया ३. गोडीयारूपा: ४.। गोपादाश्चत्वारः। मालास्तबकाश्चत्वारः । कराङ्ग लयश्चतस्त्रः । संज्ञा आहार १. भय २. मैथुन ३. परिग्रहरूपाः४. । सुरभेदाः वैमानिक १. ज्योतिष्क २. व्यन्तर ३. भवनपतिरूपाः४ । योजनस्य क्रोशाश्चत्वारः । लोकपाला: सोम १. यम २. वरुण ३. धनद ४. रूपाः । अत्रोदाहरणानि स्पष्टानि ।
पञ्चसङख्या यथा-स्मरबाणा: पञ्च उन्माद १. मोहन २. तापन ३. शोषण ४. मारणाख्याः ५. । पाण्डवाः पञ्च-युधिष्ठिर १. भीम २. अर्जुन ३. सहदेव ४. नकुल ५. रूपाः। इन्द्रियाणि पञ्च-श्रोत्र १. चक्ष २. घ्राण ३. रसन ४. स्पर्शनरूपाणि ५. । कराङ्ग लय: साङ्गष्ठाः पञ्च । शम्भुमुखानि पञ्च । महायज्ञाः पञ्च-देवयज्ञ १. पितृयज्ञ २. ऋषियज्ञ ३. अतिथियज्ञ ४. भूतयज्ञरूपा:४। विषयाः पञ्च पञ्चेन्द्रियग्राह्याः । व्याकरणाङ्गानि सूत्र १. लिङ्ग २. आदि ३. नाममाला ४. उणादि ४. रूपाणि । व्रतवह्नयः पञ्चाग्नितपोरूपाः । सुपार्श्वतीर्थकृतो, लाञ्छनफणिफणा: पञ्च। परमेष्ठिन: अर्हत् १. सिद्ध २. आचार्य ३. उपाध्याय ४. साधु ५. रूपाः। महाकाव्यानि पञ्च-मेघदूत १. कुमारसम्भव २. रघुवंश ३. माघ ४. किरात: ५ रूपाणि । स्थानकानि पञ्च । तनुवाताः पञ्च । प्राणा १. प्राण २. समान ३. उदान ४. व्यान ५. रूपाः; अथवा तनूनि शरीराणि तैजस १. कार्मण २. औदारिक ३. वैक्रिय ४. आहारकरूपाणि५। वायवः पञ्च प्राणाख्याः । मृगशिरस्ताराः मृगशिरोनक्षत्रशिरःस्थाः पञ्च, ताराः पञ्च। कुलानि पञ्च लोके पंचउल इति प्रसिद्धिः । महाभूतानि पृथिव्यादीनि पञ्च । प्रणामाः पञ्च ।। उत्तरविमानाः पञ्च विजय १. वैजयन्त २. जयन्ता ३. ऽपराजित ४. सर्वार्थ सिद्धि ५. रूपाः। महाव्रतानि-प्राणातिपात १. मृषावाद २. अदत्तादान ३. मैथुन ४. परिग्रह ५. रूपाणि । मरुद्वक्षा:-कल्प १. पारिजात २. मन्दार ३. हरिचन्दन ४. सन्तान ५. रूपाः। समितयः पञ्च-ई- १. भाषा २. एषणा ३. आदाननिक्षेपा ४. पारिष्ठापनिका ५. रूपाः। स्थानकानि-शस्त्रश्रमस्य आलीढ १. प्रत्यालीढ २. वैशाख ३. मंडल ४. समपाद ५. रूपाणि । अत्रोदाहरणानि स्पष्टानि। का.क.
रसरागवज्रकोणास्त्रिशिरोनेत्रान्तराणि गुणतर्काः ।
दर्शनगुहमुखभूखण्डचक्रिणः स्युरिह षट्संख्या: ।।२६४।। यथा--
यस्योग्रमूर्तेः शरभूर्बभार षड्भिर्गुणैः षण्मुखतां प्रतापः । यत्कुण्डलानीव विरेजुरुच्चैश्चण्डद्युतां द्वादशमण्डलानि ॥ द्वापरविवाहपातालशक्रवाहमुखदुर्गतिसमुद्राः । भयसप्तपर्णपणे : गोदावर्यस्त्वमी सप्त ॥२६५ ।।
1. कषाया: -----------मिश्राख्या:-इदं पा.म. पुस्तके नास्ति। 2. माघप्रणीतं 'शिशुपालवधम्' । 3. दण्डिप्रणीतं 'किरानार्जुनीयम्'। 4. 'प्रणामाः पञ्च' इतीदं पा.म. पुस्तके नास्ति । 5. श्रीपार्श्वचिह्नफणिफणतत्त्वक्षेत्रानलज्वालाः ।
राजाङगधान्यभुवनस्वरकुलपर्वतनयाः ससन्ताना : ।। ला.पा. पुस्तकेषु।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org