Book Title: Kavyakalpalatavrutti
Author(s): Amarchand Maharaj, R S Betai, Jitendra B Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 294
________________ काव्यकल्पलतावृत्ति: परिशिष्ट पारावारं व्यस्तव्यन्यस्तं च पारावारशब्दात् समस्ताव्यस्ताच्च द्वितीयान्तात् गामिन्यर्थे ईनः । पारावारं गामी पारावारीण:, पारीणः, अवारीण:, अवारपारीण: । पूर्वत्र भवार्थे, इह तु गामिन्यर्थे ईन इत्यत्र विशेषः ॥छ।। प्राण्यङ्गादातोलः; मतुश्च चुडालः जंघालः शिखालः; चूडावान् जंघावान् शिखावान् । प्राण्यङ्गादिति किं ? जङघावान् प्रासादः, शिखावान् प्रदीपः । अङ्गग्रहणं किं ? इच्छावान् वासनावान् । कणिकाल इत्यत्र कणिकाशः । प्राण्यङ्गवाचकमित्याहुः ॥छ।। प्रज्ञापर्णोदकफेनाल्लेभौल्लौ । एभ्यो लइमो मनुश्च-प्रज्ञालुः प्रशिलः प्रज्ञावान्, पर्णलः पणिलः पर्णावान, उदकल: उदकिल: उदकवान, फेनलः फेनिलः फेनवान् ॥छ।। स्त्रियः पुंसो द्वन्द्वाच्च स्त्रीशब्दात परो य: पुमत्स शब्दस्तदन्तात् द्वन्द्वाच्च कर्मधारयाच्च अन् । स्त्री च पुमांश्च स्त्रीपुंसौ, स्त्रीपुंसः । कर्मधारयात् स्त्री चासौ पुमांश्च स्त्रीपंसः। शिखण्डी स्त्रीपुंसं विद्धि राक्षसं । द्वन्द्वाच्चेति कि ? स्त्रियां पुमान् स्त्रीपुमान् । रूक सामग्यजुषा धेनन्वनुहवाङमनसाऽहोरात्रं, रात्रिन्दिवं नक्तं दिवाहदिवोष्टीवपदष्टीवाक्षिभ्रवदारगवाम् । रूक्सामादयो द्वन्द्वा अप्रत्ययान्ता निपात्यन्ते । ऋक् च साम च ऋक् सामाव । ऋक्यजुश्च ऋक् यजुषमधीयन् । धेनुश्च अनड्वांश्च धेन्वानड़वाही धेन्वनडहा असमाहारार्थं धेन्वनुडहग्रहणम् । समाहारे तु समाहारद्वन्द्वचवर्गदषहान्त इत्यनेनैव सिद्वम । वाक मनश्च वाग्मनसे, अहश्च रात्रिश्च अहोरात्रं, पुण्याविमावहोरात्रौ, रात्रिश्च दिवा च रात्रिन्दिवं, रात्रिन्दिवानि पश्यति । निपातनात पूर्वपदस्य मोऽन्तः । नक्तं च दिवा च नक्तंदिवे । अत्रापि मोऽन्तः । अहश्च दिवा च अहर्दिवम् । पर्याययोरपि वीप्सायां द्वन्द्वो निपातनात् । अहरहरित्यर्थः । रात्रिपर्यायोऽत्रान्यतर इत्येके । अहनिमित्यर्थः । ऊरौ च अष्टीवन्तौ ऊर्वष्टीवं। निपातनादन्त्यस्वरादिलोपः । पादौ चाष्टीवन्तौ च पदष्टीवं, अत्र पद्भावः । अक्षिणीव भ्रवौ चाक्षिध्रुवम् । दाराश्च गावश्च दारगवम् । अत्र निपातनाद्भव उवादेशोऽक्षिदाराशब्दयोश्च पूर्वनिपातः । द्वन्द्वादित्येव ऋक्, सामवःयस्य क्रक्सामामुग्धः [? ] । ऋक्यजुर्यस्य स क्रक्यजुः । धेनोरनड्वान् धेन्वनड्वान् ।।छ ।। पुरुषायुषद्विस्तावत्रिस्तावम् । एतेऽत्प्रत्ययान्ता निपात्यन्ते । पुरुषस्थायुः पुरुषायषम् । द्विस्तावती द्विस्तावा, त्रिस्तावती त्रिस्तावा वेदिः । वेद्यामनयोः प्रयोगः । अतीशब्दलोपो निपातनात्-प्रकृष्टौ यावती तावती, त्रिगुणा वा कस्याञ्चिद्विकृतौ भवति । विकृतिविकृती, यागविशेषौ । अन्यत्रापि च दृश्यते । द्विस्तावो ऽग्निः त्रिस्तावोऽग्निः ॥छ।। सप्तत्युत्सुरभेर्गन्धादि गुणे सप्तति उत । सुरभि इत्येतेभ्यः परो यो गन्धशब्दो गुणे वर्तते, तदन्ताद् बहुव्रीहेरित, शोभनो गन्धो गुणोऽस्य वा सुगन्धिवदनं, पूतिगन्धिकरजं, उद्गन्धिकमलं, सुगन्धिकेसरम् । उत्तरत्रागन्तोर्वावचनादिह स्वाभाविकाद्भवति । स्वादिभ्य इति कि? तीव्रगन्धं हिङ्ग, उग्रगन्धा वचा । गन्धादिति कि ? सुरसः । गुण इति कि? । शोभना गन्धाः कुष्टादयोऽस्य सुगन्ध आपणिकः । इदिति तकार उच्चारणार्थः ॥छ।। ___ वागन्ती स्वादिभ्यः पर आगन्तौ । आहार्ये गणे वर्तते यो गन्धशब्दस्तदन्ताद् बहुव्रीहेरिद्वा, सुगन्धि सुगन्धं वा शरीरं, पूतिगन्धि पूतगन्धं वा जलं, उद्गन्धि: उद्गन्धो वा आपणः, सुरभिगन्धिः सुरभिगन्धो वा पवनः ॥छ।। वाल्ये अल्पेऽर्थे यो गन्धशब्दस्तदन्तादबहवीहेरिद्वा । सूपस्य गन्धो मात्राऽस्मिन् सूपगन्धि: सूपगन्धभोजनं, अल्पसूपमित्यर्थः । माल्यगन्धि: माल्यगन्ध उत्सवः । एवं दधिगन्धि दधिगन्धं भोजनं । असमानाधिकरण्येऽपि उष्ट्रमुखादित्वाद्बहुव्रीहिः ॥छ।। वोपमानात उपमानात् परो यो गन्धशब्दस्तदन्ताद बहवीहेरिद्वा, उत्पलस्येव गन्धोऽस्य उत्पलगन्धः उत्पलगन्धं वा मुखं । करीषगन्धि करीषगन्धो [न्धं ?] वा शरीरं ॥छ।। धनुषो धन्वन् धनुःशब्दस्तदन्ताबहुव्रीहौ धन्वन्नित्ययमादेशः । शाङ्ग धनुरस्य शार्ङ्गधन्वा, पिनाकधन्वा, अजकावधन्वा, गाण्डीवधन्वा । कथं गाण्डीवधनुषः खेभ्यो निश्चकार हुताशन इति ? संज्ञात्वविवक्षायामुत्तरेण विकल्पो भविष्यति । ॥छ।। . Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454