________________
काव्यकल्पलतावृत्ति: परिशिष्ट
पारावारं व्यस्तव्यन्यस्तं च पारावारशब्दात् समस्ताव्यस्ताच्च द्वितीयान्तात् गामिन्यर्थे ईनः । पारावारं गामी पारावारीण:, पारीणः, अवारीण:, अवारपारीण: । पूर्वत्र भवार्थे, इह तु गामिन्यर्थे ईन इत्यत्र विशेषः ॥छ।।
प्राण्यङ्गादातोलः; मतुश्च चुडालः जंघालः शिखालः; चूडावान् जंघावान् शिखावान् । प्राण्यङ्गादिति किं ? जङघावान् प्रासादः, शिखावान् प्रदीपः । अङ्गग्रहणं किं ? इच्छावान् वासनावान् । कणिकाल इत्यत्र कणिकाशः । प्राण्यङ्गवाचकमित्याहुः ॥छ।।
प्रज्ञापर्णोदकफेनाल्लेभौल्लौ । एभ्यो लइमो मनुश्च-प्रज्ञालुः प्रशिलः प्रज्ञावान्, पर्णलः पणिलः पर्णावान, उदकल: उदकिल: उदकवान, फेनलः फेनिलः फेनवान् ॥छ।।
स्त्रियः पुंसो द्वन्द्वाच्च स्त्रीशब्दात परो य: पुमत्स शब्दस्तदन्तात् द्वन्द्वाच्च कर्मधारयाच्च अन् । स्त्री च पुमांश्च स्त्रीपुंसौ, स्त्रीपुंसः । कर्मधारयात् स्त्री चासौ पुमांश्च स्त्रीपंसः। शिखण्डी स्त्रीपुंसं विद्धि राक्षसं । द्वन्द्वाच्चेति कि ? स्त्रियां पुमान् स्त्रीपुमान् । रूक सामग्यजुषा धेनन्वनुहवाङमनसाऽहोरात्रं, रात्रिन्दिवं नक्तं दिवाहदिवोष्टीवपदष्टीवाक्षिभ्रवदारगवाम् । रूक्सामादयो द्वन्द्वा अप्रत्ययान्ता निपात्यन्ते । ऋक् च साम च ऋक् सामाव । ऋक्यजुश्च ऋक् यजुषमधीयन् । धेनुश्च अनड्वांश्च धेन्वानड़वाही धेन्वनडहा असमाहारार्थं धेन्वनुडहग्रहणम् । समाहारे तु समाहारद्वन्द्वचवर्गदषहान्त इत्यनेनैव सिद्वम । वाक मनश्च वाग्मनसे, अहश्च रात्रिश्च अहोरात्रं, पुण्याविमावहोरात्रौ, रात्रिश्च दिवा च रात्रिन्दिवं, रात्रिन्दिवानि पश्यति । निपातनात पूर्वपदस्य मोऽन्तः । नक्तं च दिवा च नक्तंदिवे । अत्रापि मोऽन्तः । अहश्च दिवा च अहर्दिवम् । पर्याययोरपि वीप्सायां द्वन्द्वो निपातनात् । अहरहरित्यर्थः । रात्रिपर्यायोऽत्रान्यतर इत्येके । अहनिमित्यर्थः । ऊरौ च अष्टीवन्तौ ऊर्वष्टीवं। निपातनादन्त्यस्वरादिलोपः । पादौ चाष्टीवन्तौ च पदष्टीवं, अत्र पद्भावः । अक्षिणीव भ्रवौ चाक्षिध्रुवम् । दाराश्च गावश्च दारगवम् । अत्र निपातनाद्भव उवादेशोऽक्षिदाराशब्दयोश्च पूर्वनिपातः । द्वन्द्वादित्येव ऋक्, सामवःयस्य क्रक्सामामुग्धः [? ] । ऋक्यजुर्यस्य स क्रक्यजुः । धेनोरनड्वान् धेन्वनड्वान् ।।छ ।।
पुरुषायुषद्विस्तावत्रिस्तावम् । एतेऽत्प्रत्ययान्ता निपात्यन्ते । पुरुषस्थायुः पुरुषायषम् । द्विस्तावती द्विस्तावा, त्रिस्तावती त्रिस्तावा वेदिः । वेद्यामनयोः प्रयोगः । अतीशब्दलोपो निपातनात्-प्रकृष्टौ यावती तावती, त्रिगुणा वा कस्याञ्चिद्विकृतौ भवति । विकृतिविकृती, यागविशेषौ । अन्यत्रापि च दृश्यते । द्विस्तावो ऽग्निः त्रिस्तावोऽग्निः ॥छ।।
सप्तत्युत्सुरभेर्गन्धादि गुणे सप्तति उत । सुरभि इत्येतेभ्यः परो यो गन्धशब्दो गुणे वर्तते, तदन्ताद् बहुव्रीहेरित, शोभनो गन्धो गुणोऽस्य वा सुगन्धिवदनं, पूतिगन्धिकरजं, उद्गन्धिकमलं, सुगन्धिकेसरम् । उत्तरत्रागन्तोर्वावचनादिह स्वाभाविकाद्भवति । स्वादिभ्य इति कि? तीव्रगन्धं हिङ्ग, उग्रगन्धा वचा । गन्धादिति कि ? सुरसः । गुण इति कि? । शोभना गन्धाः कुष्टादयोऽस्य सुगन्ध आपणिकः । इदिति तकार उच्चारणार्थः ॥छ।।
___ वागन्ती स्वादिभ्यः पर आगन्तौ । आहार्ये गणे वर्तते यो गन्धशब्दस्तदन्ताद् बहुव्रीहेरिद्वा, सुगन्धि सुगन्धं वा शरीरं, पूतिगन्धि पूतगन्धं वा जलं, उद्गन्धि: उद्गन्धो वा आपणः, सुरभिगन्धिः सुरभिगन्धो वा पवनः ॥छ।।
वाल्ये अल्पेऽर्थे यो गन्धशब्दस्तदन्तादबहवीहेरिद्वा । सूपस्य गन्धो मात्राऽस्मिन् सूपगन्धि: सूपगन्धभोजनं, अल्पसूपमित्यर्थः । माल्यगन्धि: माल्यगन्ध उत्सवः । एवं दधिगन्धि दधिगन्धं भोजनं । असमानाधिकरण्येऽपि उष्ट्रमुखादित्वाद्बहुव्रीहिः ॥छ।।
वोपमानात उपमानात् परो यो गन्धशब्दस्तदन्ताद बहवीहेरिद्वा, उत्पलस्येव गन्धोऽस्य उत्पलगन्धः उत्पलगन्धं वा मुखं । करीषगन्धि करीषगन्धो [न्धं ?] वा शरीरं ॥छ।।
धनुषो धन्वन् धनुःशब्दस्तदन्ताबहुव्रीहौ धन्वन्नित्ययमादेशः । शाङ्ग धनुरस्य शार्ङ्गधन्वा, पिनाकधन्वा, अजकावधन्वा, गाण्डीवधन्वा । कथं गाण्डीवधनुषः खेभ्यो निश्चकार हुताशन इति ? संज्ञात्वविवक्षायामुत्तरेण विकल्पो भविष्यति । ॥छ।।
.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org