________________
२८
काव्यकल्पलतावृत्ति: परिशिष्ट
वा युष्मदस्मदोऽञीनजौ युष्माकास्माकं चास्यकत्वे तु तवकं ममकं । युष्मदस्मदित्येताभ्यां शेषेऽर्थेऽज नञ प्रत्ययौ वा भवतः । तत्सन्नियोगे तु यथासख्यं युष्मदस्मदोर्युष्माकास्माको। एकत्वशिष्टे त्वर्थे वर्तमानयोस्तवकममको आदेशौ भवतः। प्रत्ययौ प्रति यथासंख्यं नास्ति वचनभेदान् युष्माकमयं युवयोर्वायौष्माकीणः । अस्माकमयमावयो आस्माकं, आस्माकीनः । पक्षे त्यदादित्वे नयुसंज्ञत्वात्पदीयः युष्मदीयः अस्मदीयः, एकत्वे तु तवकममकम् । तवायं तावकीयः तावक: मामयं (ममायं) मामक: मामकीनः । पक्षे त्वदीयः मदीयः ॥छ।।
समानपूर्वलोकोत्तरपदात समानशब्दपूर्वपदेभ्यो लोक शब्दोत्तरपदेभ्यश्च । इकण समानग्रामे कृतो भवो वा स समानग्रामिकः, समानदेशिकः । इहलोके कृतो भवो वा ऐहलौकिक:, सार्वलौकिकः,॥छ।।
वर्षाकालेभ्य:-वर्षाशब्दात कालविशेषवाचिभ्य इकण, अणोऽपवादः । दोरीयमपि परत्वाद्बाधते । वर्षासु भवो वार्षिक: पूर्ववार्षिकः, अपरवार्षिकः । कालवाचि मासिकः, अर्द्धमासिकः, सांवत्सरिकः, आन्हिकः, देवसिकः ॥छ।।
निशाप्रदोषादिकण्वा-नैशिकः, नैशः, प्रादोषिकः, पूर्वाह्नाऽपराह्नात्तमट । आभ्यां वा तमट् । वर्षाकालेभ्य इति-- नित्यमिकणि प्राप्ते विकल्पस्तेन पक्षे सोऽपि भवति । पूर्वाह्न जातो भवो वा पूर्वाह्रोतमः, पूर्वाह्नतमः; अपराह नोतमः, अपराह्नतमः । कालात्तनेत्यादिना वा सप्तम्यालुक् ।।
पूर्वाह्न जयी पूर्वाह्नतमः, अपराह्नतमः । अत्र जयनिवाप्ये तत्र व्यवस्थित विभाषाविज्ञानान्नित्यं सप्तम्यालप् । पक्ष पौर्वाह्निक: आपराह्निकः । टकारो ड्यर्थः, पूर्वाह्नतनी, अपराह्नतनी॥छ।।
सायं चिरं प्राह्ने प्रगेऽव्ययात । एभ्योऽव्ययेभ्यश्च कालवाचिभ्यस्तनट् । साये भवं सायंतनं, चिरे भवं चिरन्तनम् । अत एव निर्देशान्मान्तत्वं निपात्यते । प्रातॆतनं प्रगेतनम् । अनयोरेकान्तत्वम् । अव्ययदिवातनं, दोषातनं, नक्ततनं, पुनस्तनं प्रातस्तनम् ॥छ॥
__ तं प्रत्यनोर्लोमे पकूलात् तमिति द्वितीयान्तात् प्रति अनु इत्येताभ्यां परो यो लोमशब्द: ईपशब्द: कुलशब्दः तदन्ताद्वर्तत इत्यर्थः । इकण प्रत्ययो भवति । प्रतिलोमं च वर्तते प्रातिलोमिकः, आनुलोमिकः, प्रातीपिकः, आन्वीषिक:, प्रातिकूलिकः, आनुकूलिकः ।।छ।
सुस्नातादिभ्यः पृच्छति । सुस्नातादिभ्यो द्वितीयान्तेभ्यः पृच्छत्यर्थे इकण् । सुस्नातं पृच्छति सौस्नातिकः, सौखरात्रिकः, सौखशायिकः, सौखशज्जिकः । सुस्नातादय: प्रयोगगम्याः ।।छ।।
सर्वजनाण्ये नौ अस्मात् तत्र साधौ ण्य ईनञ्प्रत्ययौ । सार्वजन्यः, सार्वजनीन:, पञ्चसर्वजनविश्वाज्जनात कर्मधारये । एभ्यः पराज्जनशब्दात् कर्मधारये वर्तमानात् तस्मै हिते ईनः ईर्यापवादः । पञ्चजनेभ्यः पञ्चजनाय वा हितः पञ्चजनीनः । रथकारपञ्चमस्य चातुर्थस्य पञ्चजन इति संज्ञा । एवं सर्वजनीनः विश्वजनीनः ॥छ।।
महत्सर्वादि कण-महतः सर्वाच्च योजनशब्दस्तदन्तात् कर्मधारये । तस्मै हिते इकण, महते जनाय हितो माहाजनिकः ।' सर्वस्मै जनाय हितो सार्वजनिक: । एते सर्वजनात् पूर्वेण ईनः । अनेन कणि तु द्वरूप्यम् ॥छ।।
यथा कामान् कामात्यन्तंगामिनि । एभ्यो द्वितीयान्तेभ्यो गामिन्यर्थे ईनः । यथा कामं गामी यथाकामीनः, अनुकामीनः, यथेच्छं गामीत्यर्थः । अत्यन्तं गामी अत्यन्तीनः, भृशं गतेत्यर्थः ॥छ।।
सर्वादेः पथ्यंगकर्मपत्रपात्रशरावं प्राप्नोति । सर्वशब्दपूर्वेभ्य: पथि अङ्गकर्मन् । पत्रपात्रशराव इत्येतदन्तेभ्यो द्वितीयान्तेभ्यो व्याप्नोतीत्यर्थे ईनः प्रत्ययो भवति । सर्वपथं व्याप्नोति सर्वपथीनो रथः। सर्वपथान् व्याप्नोति सर्वपथीनमुदकम् । एवं सर्वाङ्गीणस्तापः, सर्वकर्माणः [कर्मी] पुरुषः, सर्वपत्रीणः ओदनः । सर्वादेरिति किं ? पन्थानं व्याप्नोति ॥छ।
१. माहजानिक:-सं.प.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org