________________
काव्यकल्पलतावृत्तिः परिशिष्ट
२७
कुंतल तो पयडथाइदंसण जणियखलयण डरभरभारिय अहिसर । चंद संदर निसिहि पइंपिययम अहिसरिआ।
वदनकस्य कर्षरेण यथा-- कि न फुल्लइ पाडलपरिमल महमहइ किण्ण महेवि अविरला नवमालिय किं न दलइ पहिल्लय कि न उत्थरइ कुसुमभरिअमल्लिअ दीहिअ तलाय सरतल्लायहि कि न पभाइहिं पउमणि फुडइ तु वि जाइ जायगुणसंभरणु झाण किसलहमणि खुडइ।
कुंकुमेन यथा-- जइ तुहं महु करयलु उम्मोडइवि बल्लिअ चीरं तुल अच्छोडवि माणिणि तुवि पसाउ करिसुम्म उ पइ पिउ उत्तावलि अम गम्मउ । जइ किमावि संचयह पयजुयल इह विहिवसिण विहट्टइ ता तुज्झ मज्झ रवीणउं खरउं कि नर वामोयरि तुट्टइ ।।छ।।
इति श्री वायटीयगच्छीयश्रीजिनदत्तसूरिशिष्य पण्डितश्रीमदमरविरचितस्वोपज्ञकाव्यकल्पलतावृत्तिविवेचने परिमलनाम्नि न्यासस्तबकोल्लासी स्वनामाङक छन्दःकाव्यकीर्त्तनो नाम द्वितीयः प्रस्तरः ।ग्रं. ३८४ ॥छ।।
चतुप्केत्यादि-चतुष्कतद्धिताख्यातकृतां शब्दै रेतद्वत्त्यदाहरणः स्यादीनिः। प्रथमादिसप्तविभक्तीनां एकविंशतिवचनैः साधितनामभिः। त्यादीनि वर्तमानादिदशविभक्तीनां प्रत्येकमष्टादशवचनैः साधितधातुभिः कर्त कर्मादिकारकच्छाये विशेषास्तदुद्भवः सित्यादीनि। स्यादिविभक्तिविशेषास्त्यादिविभक्तिविशेषाश्च ये तदुद्भवैः स्यादिशब्दाः कर्तकर्मादिविशेषशब्दाः स्यादिविभक्तिविशेषशब्दाश्चतुष्कोक्तत्वाच्चतुष्कशब्दा ज्ञेयाः। तथा त्यादिशब्दास्त्यादिविभक्तिविशेषशब्दाश्चाख्यातोक्तत्वादाख्यातशब्दाः ज्ञेयाः ।परं शिष्याणां क्रमपरिज्ञानाय पृथगुक्ताः ॥छ।।
चतुष्कशब्दा विदितास्तद्विदितशब्दा: केऽपि लिख्यन्ते । श्रीसिद्धहेमतद्धितान् प्राग्वतः स्त्रीपुंसान्नञ सूञ प्राग्वतो यऽर्थास्तेष्वनिदम्यण् पचादेव स्त्रीशब्दात् पुमत्सशब्दाच्च, यथासंख्यं नञ स्तजा प्रत्ययो भवतः। स्त्रिया अपत्यं स्त्रणः पौंस्तः स्त्रीणां समूहः स्त्रैणं पौस्तं स्त्रीणामियं स्त्रणी पौस्ती स्त्रीणां निमित्त संतोग उत्पातो वा स्त्रैण पोस्त: स्त्रीभ्यो हितं स्त्रणं पौस्त ।।छ।। ते त्वा स्त्री शब्दात् पुमत्सशब्दाच्च त्वेव प्रत्ययविषटो भावे यथासंख्यं ना स्ता प्रत्ययौ वा भवतः । स्त्रिया भावस्त्रणं स्त्रीत्वं स्त्रीता पौस्तं पुस्त्वं पुस्ता पारा वारादीनः । अवारः समुद्रतस्य पारं राजा दन्तादित्वात् । पारावारस्तत्र भवो जातो पारावारीण: व्यस्त व्यतस्तान् पारावारशब्दाद्वास्ताद्विपर्यस्ताच्च ईनप्रत्ययो भवति । बारीण अवारीण: अवारपारीणः ॥छ।।
द्युप्रागु पागदक् प्रतीचो य: दिवशब्दात् प्राच अपाच् उदच् प्रत्यच इत्येतेभ्यश्चाव्ययानव्ययेभ्यो य: प्रत्ययो भवति, दिवि भवं दिव्यं, प्राचि प्राग्वा भवं प्राच्यं, अपाच्यं, उदीच्यं, प्रतीच्यं । दिग्देशवृत्तेः प्रागादेरयं यः कालवृत्तेः त्वव्ययात् परत्वात् सायमित्यादिना तनट् । अनव्ययात्तु वर्षाकालेभ्य इतीकण प्राक्तनं प्राचिकमित्यादि ॥छ।।
दक्षिणा पश्चात् पुरःसस्त्यण् । अणोऽपवादः । दक्षिणादिक् तस्यां भवो दाक्षिणात्यः । अथवा दक्षिणस्यां दिशि वसति वा दाक्षिणात्यः। प्रथमा सप्तम्या इत्याप्रत्यये दक्षिणा, तत्र भवो दाक्षिणात्यः। पाश्चात्यः पौरस्त्यः पश्चात् पुरःशब्दसाहचर्याद्। दक्षिणा शब्दो अव्ययं वा गृह्यते (गृह णाति ?) ॥छ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org