Book Title: Kavya Prakasha Khandana
Author(s): Siddharshi Gani, Rasiklal C Parikh
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 43
________________ ४ काव्यप्रकाशखण्डन करणैर्यथा स्फोटव्यञ्जकशब्दस्य ध्वनिरिति व्यवहारः कृतः, तथाऽम्यैरपि आलङ्कारिभिर्वा - - च्यव्यञ्जनक्षमस्य शब्दार्थयुगलस्य । अत्रेदं बोध्यम् । स्फुटयत्यर्थमिति स्फोटः । ननु शब्दात् कथं पदार्थवाक्यार्थधीः १. आशुविनाशिनां क्रमिकाणां मेलकाभावाद्, आनुपूर्व्याः ज्ञातुमशक्यत्वाच्च । तेन च पूर्वपूर्ववर्णानुभर्वजनित संस्कारसहकृतेन अन्तिमवर्णानुभवेन स्फोटो व्यज्यते । स च ध्वन्यात्मकः । शब्दो नित्यो ब्रह्मखरूपः सकलप्रत्यायनक्षमोऽङ्गीक्रियते । तद्वयञ्जकश्च वर्णात्मकः शब्दः । वृत्तिस्तु व्यञ्जनैव । तद्व्यञ्जकः शब्दो ध्वनित्वेन व्यवहियत इति वैयाकरणमतम् । तदसत् । एवमन्तिमवर्णानुभवस्यैव पदार्थ प्रतीतिक्षमत्वे आनुपूर्वी ज्ञानस्योपायसंभवेन किमन्तर्गडुना स्फोटेन ! | नायकानयनाय प्रेषितां तं संभुज्य समागतां दूतीं प्रति काचित् स्नानकार्यप्रदर्शन - मुखेन संभोगं प्रकाशयति - निःशेषच्युतचन्दनं स्तनतटं निर्मृष्टरागोऽधरो नेत्रे दूरमनञ्जने पुलकिता तन्वी तवेयं तनुः । मिथ्यावादिनि दूति । बान्धवजनस्याज्ञातपीडागमा ( मे १ ) वापीं स्नातुमितो गताऽसि न पुनस्तस्याधमस्यान्तिकम् ॥ sarai काव्यम् । अस्यार्थः - दूतस्य मिथ्याभाषणं स्वभावः इति दूति (ती). न तु सखी. तत्त्वे मत्प्रतारणं मत्प्रियसंभोगश्च न स्यात् । उद्देश्यकार्यानिर्वाहकतया बान्धवजनस्य पीडा भवति तन्न जानासि । तस्य नीचाभिलाषित्वेन प्रसिद्धस्य अतः अधमस्य । नीच [१० ३.१] कार्यकर्तुः प्राधान्येन । अधमशब्दस्य पदान्तरापेक्षया झटिति प्रकृतार्थव्यञ्जकत्वेन प्राधान्यम् । अत्र स्तनतटं निःशेषश्च (च्यु ) तचन्दनं, न स्तनसन्ध्यादि. तंत्र तथाविधनायककरस्पर्शायोगात् । एवमधरः परौष्ठः, तत्र रागो निर्मृष्टः, न तु पूर्वोष्ठे, तत्र चुम्बन निषेधात् । एवं नेत्रमध्ये चुम्बन निषेधात् दूरतएव निरञ्जने । एतत् सर्वं रत एव संभवति न तु खाने । स्नानं चेत् सर्व्वविच्छेदेनैव चन्दनच्यवनादि स्यात् । तथा च तथाविधचन्दनच्यवनादीनां रतैकसाध्यानां taraकार्यत्वबोधेन खातुं गतऽसीत्यत्र निषेधो न गताऽसीत्यत्र विधिश्व लक्ष्यते । न च तिषेधे कथं लक्षणेति वाच्यम् । अन्यथाऽसंगत्यापत्तेः । रन्तुमिति प्रयोजनं चेत्याहुः । तन्न । तथाविधानामपि चन्दनच्यवनादीनां स्वान कार्यत्वं संभवत्येव । तथा हि - वापीं स्नातुं गताऽसि न तु गृहम् । एतच्च विशिष्य वापीपदोपादानात् लक्ष्यते । तथा, स्तनतट एव निश्शेषच्युतिर्न स्तनसन्ध्यादिषु। वापीतीरस्य जनसङ्कीर्णतया तथाविधमार्जनाभावाद्, गृह एव तत्संभवात् । तथा, पूर्वोष्ठस्य न्युब्जतया बहलजलसम्बन्धाभावात्, न तत्र निश्शेषरागच्युतिः । किन्तु अधर एव, उत्तानत्वेन बहलजलसम्बन्धात् । तथा, स्नानकाले मुद्रणात् नेत्रमध्ये नानराहित्यम्, किन्तु दूरत एव । इत्यादिरूपेण स्नानकार्यत्वस्य संभवात् बाधकाभावात् कथं लक्षणा ? नवीना (न ? ) स्तु वक्तृबोद्धव्यवैशिष्ट्यात् व्यञ्जनैव तदाह । तदन्तिकमेव रन्तुं गताऽसीति व्यज्यत इति । मिश्रास्तु 'न गताऽसीति नञि काकुः, न गताऽसि ? अपि तु गताऽस्येवेत्यर्थः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148