Book Title: Kavya Prakasha Khandana
Author(s): Siddharshi Gani, Rasiklal C Parikh
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text ________________
काव्यप्रकाशखण्डन “सन्धिश्रवणकुपितस्य भीमसेनस्योक्तिरियम् । भवतामिति न ममापि । तेन तस्कृतसन्धाने नास्माकं सन्धिरिति प्रतिज्ञा विरुद्धनिषेधाभिधायिषु नजिषु काकुनिषेधान्तरक्षेपिका । अभावाभावश्वावधारणमेवेत्याह - मनाम्येवेति व्यङ्ग्यं गुणीभूतं तदयुक्तम् । तथा हिमथ्नाम्येवेति व्यङ्ग्यस्य भीमसेनगतक्रोधोत्कर्षकत्वेन रौद्ररसोपोद्वलनद्वारा वाच्यात् सातिशयचमत्कारित्वेन ध्वनित्वे [५० १०.१] संभवति कुतो गुणीभूतव्यङ्ग्यत्वम् ! । असुन्दरं तद् यत्र व्यङ्ग्यं चमत्कारित्वे वाच्यमुखनिरीक्षकम् । यथा -
ग्रामतरुणं तरुण्या नववझुलमञ्जरी सनाथकरम् ।
पश्यन्त्या भवति मुहुर्नितरां मलिना मुखच्छाया ॥ अत्र दत्तसङ्केता नागतेति व्यङ्ग्यापेक्षया वाच्यस्यैव चमत्कारित्वात् ॥ ॥ इति पादसाह-श्रीअकब्बरसूर्यसहस्रनामाध्यापक-श्रीशत्रुञ्जयतीर्थकरमोचनाद्यनेकसुकृतविधापक
महोपाध्याय-श्रीभानुचन्द्रगणिशिष्याष्टोत्तरशतावधानसाधनप्रमुदितपादसाहश्रीअकब्बरप्रदत्त-खुस्फहमापराभिधानमहोपाध्याय-श्रीसिद्धिचन्द्र
गणिविरचिते काव्यप्रकाशखण्डने पञ्चम उल्लासः ॥
षष्ठ उल्लासः। चित्रमेदास्त्वलङ्कारनिरूपण एव निरूपयिष्यन्ते । इदमवधेयम् -
शब्दार्थचित्रं यत् पूर्व काव्यद्वयमुदाहृतम् । - गुणप्रधानतस्तत्र स्थितिः शब्दार्थचित्रयोः॥ (मू० का० ४८ )
न तु शब्दचित्रे नार्थस्य चित्रताऽर्थचित्रे शब्दस्य । तथा कैश्चित् शब्दचित्रमेवेष्यते । कैश्चिदर्थचित्रमेवेष्यते । अस्माभिस्तु द्वयमेवेति । उदाहरणं तु प्राक्तनं बोध्यम् । ॥ इति पादसाह-श्रीअकबरसूर्यसहस्रनामाध्यापक-श्रीशत्रुञ्जयतीर्थकरभोचनाद्यनेकसुकृतविधापक
महोपाध्यायश्रीभानुचन्द्रगणिशिष्याष्टोत्तरशतावधानसाधनप्रमुदितपादसाहश्रीअकब्बरप्रदत्तखुस्फहमापरामिधानमहोपाध्यायश्रीसिद्धिचन्द्र
गणिविरचिते काव्यप्रकाशखण्डने षष्ठ उल्लासः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148