Book Title: Kavya Prakasha Khandana
Author(s): Siddharshi Gani, Rasiklal C Parikh
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 130
________________ दशम उल्लास शैलेन्द्रप्रतिपाद्यमानगिरिजाहस्तोपगूढोल्लसद्रोमाश्वादिविसंस्थूलाखिलविधिव्यासङ्गभङ्गाकुलः । हा शैत्यं तुहिना चलस्य करयोरित्युचिवान् सस्मितं शैलान्तःपुर [१०५५१] मातृमण्डलगणैर्डष्टोऽवताद् वः शिवः ॥ वो युष्मान् शिवः अव्याद् रक्षतु । कीदृशः ? शैलेन्द्रेण हिमाचलेन प्रतिपाद्यमाना दीयमाना या गिरिजा पार्वती तस्या हस्तोपगूहेन हस्तस्पर्शेन उल्लसद् व्यक्ती भवद् यद् रोमाञ्चादि रोमाञ्चकं यः खरभङ्गादिः तेन विसंस्थुलो विसदृशः योऽखिलः समस्तो विधिर्विधानं तेन यो व्यासङ्गस्वस्य भङ्गे भङ्गार्थमाकुलो व्याकुलः, सस्मितं यथा स्यादेवं तुहिनाचलस्य हिमगिरेः, हा शैत्यमित्यू चिवान् कथितवान् । शैलान्तःपुरे हिमाचलस्यान्तःपुरे यो मातृमण्डलानां गणः समूहस्तैर्द्वष्टोऽवलोकित इत्यर्थः । अत्र पार्वतीस्नेहस्य प्रच्छन्नतयाऽनुवर्त्तमानस्य करस्पर्शजन्यरोमाश्वादिनोद्भिद्यमानस्य हिमालयकरस्पर्शजन्यत्वं प्रतिपादयता पुनर्निगूहनाद् व्याजोक्तिरित्यर्थः । • किञ्चित् पृष्टमपृष्टं वा कथितं यत् प्रकल्पते । ताहगन्यव्यपोहाय परिसंख्या तु सा स्मृता ॥ (का० ११९ ) प्रमाणान्तरावगतमपि वस्तुशब्देन प्रतिपादितं प्रयोजनान्तराभावात् सहश व स्त्वन्तरव्यवच्छेदाय भवति पर्यवस्यति सा परिसंख्या । अत्र कथनं प्रश्नपूर्वकं तदन्यथा च । यथाकिं ध्येयं विष्णुपदं किं वक्तव्यं हरेर्नाम | किं कार्यमार्यचरितैरभिलषितं पूजनं विष्णोः ॥ अन्नपूर्वकं यथा कौटिल्यं कचनिचये करचरणाधरदलेषु रागस्ते । काठिन्यं कुचयुगले तरलत्वं नयनयोर्वसति ॥ यथोत्तरं चेत् पूर्वस्य पूर्वस्यार्थस्य हेतुना । तदा कारणमाला स्यात्. (का० १२० ) उत्तरं उत्तरं प्रतिं यथोत्तरम् । यथा - जितेन्द्रियत्वं विनयस्य कारणं गुणप्रकर्षो विनयादवाप्यते । गुणप्रकर्षेण जनोऽनुरज्यते जनानुरागप्रभवा हि संपदः ॥ अथ हेतोरभेदतः उक्तिर्हेतुमती हेतुः । यथा - १ मु. पु. 'संप्रति' इति पठ्यते । Jain Education International अविरलकमले विकासः सकलालिमदः (दश्च ) कोकिलानन्दः । रम्योऽयमेति सुन्दरि ! लोकोत्कण्ठाकरः कालः ॥ ९१ For Private & Personal Use Only www.jainelibrary.org


Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148