Book Title: Kavya Prakasha Khandana
Author(s): Siddharshi Gani, Rasiklal C Parikh
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 129
________________ कृाव्यप्रकाशखण्डन नन्वाश्रयस्थितिरियं तव कालकूट केनोत्तरोत्तरविशिष्टपदोपदिष्टा । प्रागर्णवस्य हृदये वृषलक्ष्मणोऽथ कण्ठेऽधुना वससि वाचि धुनः खलानाम् ।। हे कालकूट ! इयमाश्रयस्थितिस्तव केनोपदिष्टा कथिता ? कीदृशी ? उत्तरोत्तरं विशिष्टमुत्कृष्टं पदं स्थानं यस्यां सा । तथा प्राक् प्रथमतोऽर्णवस्य समुद्रस्य हृदये, · अथानन्तरं वृषलक्ष्मणो महादेवस्य कुण्ठे, अधुनेदानी खलानां दुष्टानां वाचि मुखे वससीत्यर्थः । [५० ५४,२] अन्यस्ततोऽन्यथा । (का० ११७, पू०) अनेकमेकस्मिन्नुच्यते सोऽन्यः ।। मधुरिमरुचिरं वचः खलानां अमृतमहो प्रथमं पृथु व्यनक्ति । अथ कथयति मोहहेतुरन्तर्गतमिव हालहलं विषं तदेव ॥ अनुमानं तदुक्तं यत् साध्य-साधनयोर्वचः॥ (का० ११७, उ० ) बोध्य-बोधकयोरित्यर्थः । यथा यत्रैता लहरीचलाचलदृशो व्यापारयन्ति ध्रुवं .. यत् तत्रैव पतन्ति संततममी मर्मस्पृशो मार्गणाः । तच्चक्रीकृतचापमश्चितशरप्रेडत्करः क्रोधनो धावत्यग्रत एव शासनधरः सत्यं सदाऽऽसां स्मरः॥ यद् यस्मात् यत्रता लहरीचपलदृष्टयो वामलोचना भ्रुवं व्यापारयन्ति तत्रैवामी मर्मभिदः कामबाणाः सततं धारया पतन्ति । तत् तस्मात् मण्डलीकृतधनुर्यथा भवति तथा पूरितबाणः प्रसार्यमाणबाहुः क्रोधयुक्तः शासनधारकः सन् , आसां सदा सरः कामः अग्रत एव धावतीत्यन्वयः । अत्र पूर्वा साधनस्य, उत्तरार्द्ध साध्यस्य वचनम् । अत्र वस्तुगत्या व्याप्त्यसत्त्वेऽपि कविप्रौढोक्तौ च तथाभिधानमित्यलङ्कारत्वम् । अन्यथा वह्निमान् धूमादित्यत्रापि तथा स्यात् । ... विशेषणैर्यत् साकूतैरुक्तिः परिकरस्तु सः। (का. ११८, पू०). अर्थाद् विशेष्यस्य । यथा - महौजसो मानधना धनार्चिता धनुभृतः संयति लब्धकीर्तयः। न संहतास्तस्य न भेदवृत्तयः प्रियाणि वाञ्छत्यसुभिः समीहितुम् ॥ भारवेः पद्यम् । अत्र महौजस्त्वादिविशेषणानि परानभिभवनीयत्वाधभिप्रायकाणि । _व्याजोक्ति छद्मनोद्भिन्नवस्तुरूपनिगृहनम् ॥ ( का० ११८, उ०) निगूढमपि वस्तुनो रूपं खरूपप्रतिपन्नं केनापि व्यपदेशेन यदपडूयते सा ब्याजोक्तिः । न चैषाऽपहुतिः, प्रकृताप्रकृतयोः साम्यस्येहाभावात् । यथा- - Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148