Book Title: Kavya Prakasha Khandana
Author(s): Siddharshi Gani, Rasiklal C Parikh
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text ________________
९४
काव्यप्रकाशखण्डन
हरति - सिंहिकासुतः सिंहः तस्मात् 'संत्रस्तो भीतः शशः शीतांशुं चन्द्रं आश्रितः, तं शशं अन्यः सिंहिकासुतो राहुः साश्रयं सचन्द्रं जग्रसे भक्षितवानित्यर्थः । अत्र त्राणरूपफलाभावे अन्येन ग्रासरूपोऽनर्थः ।
महतो महीयांसावाश्रिताश्रययोः क्रमात् । आश्रयाश्रयिणी स्यातां तनुत्वेऽप्यधिकं तु तत् ॥ (का० १२८ ) आश्रिताश्रययोर्महतोरपि विषये तदपेक्षया तनू अपि आश्रयाश्रयिणौ प्रस्तुतवस्तु प्रकर्षविवक्षया । यथाक्रमं यावधिकतां व्रजतः । तदेतद् द्विविधमधिकम् । क्रमेणोदा० - अहो विशालं भूपाल ! भुवनत्रितयोदरम् । माति मातुमशक्योsपि यशोराशिर्यदत्र ते ॥ युगान्तकालप्रतिसंहृतात्मने जगन्ति यस्यां सविकासमासत । नौ मुस्तत्र न कैटभद्विषस्तपोधनाभ्यागमसंभवा मुदः ॥
तंत्र प्रथमं उदाहरति - हे भूपाल ! भुवनत्रितयस्य उदरं मध्यं अहो आश्चर्ये विशाल विस्तीर्ण यद् यस्मात् अत्र मातुं अशक्योऽपि ते तव यशोराशिर्माति परिमातीत्यर्थः । अत्र यशोराशेर्वस्तुनः काचित्कत्वेन भुवनत्रयापेक्षया तनुत्वेऽपि तदुत्कर्षविवक्षया तन्मॉनमेव भुवनत्रयविशालखे हेतुः ।
द्वितीयमुदाहरति - कैटभद्विषो विष्णोर्यस्यां तनौ शरीरे जगन्ति चतुर्दशभुवनानि सविकासं सावकाश आसत स्थितानि तत्र तनौ नारदस्तस्याभ्यागमेनागमनेन संभवा उत्पन्ना मुदः प्रीतयः न ममुः अधिका बभूवुरित्यर्थः । यत्र तपोधनागमनप्रभवमुदोऽन्यशरीरवृत्तित्वेनाधिक्यात् कैटभारिशरीरस्य तनुत्वेऽपि मुदः प्रकर्षविवक्षया तच्छरीरमानमेव हेतुतयोपात्तम् । अत्रान्यो विशेषो गुरुनाम्ना मत्कृतवृहट्टीकातो द्रष्टव्यः ।
प्रतिपक्षमशक्तेन प्रतिकर्त्तुं तिरस्क्रिया ।
या तदीयस्य तत् स्तुत्यै प्रत्यनीकं तदुच्यते ॥ (का० १२९ ) प्रतिपक्षं [ ० ५७.१] तिरस्कर्तुमित्यन्वयः । तत्स्तुत्यै प्रतिपक्षस्तुत्यै । यथा - त्वं विनिर्जितमनोभवरूपः सा च सुन्दरि ! भवत्यनुरका । पञ्चभिर्युगपदेव शरैस्तां ताडयत्यनुशयादिव कामः ॥ अनुशयादिव क्रोधादित्यर्थः ।
विधीयते यद् बलवत्सजातीयोपलम्भनैः । तिरस्करणमन्यस्य तन्मीलितमिति स्मृतम् ॥ (? का० १२० )
+ मुद्रितपुस्तकेषु तु एषः श्लोको निम्न्नरूपेण लभ्यते -
Jain Education International
समेन लक्ष्मणा वस्तु वस्तुना यन्निगूह्यते । निजेनागन्तुना वापि तन्मीलितमिति स्मृतम् ॥ (का० १३० )
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148