Book Title: Kavya Prakasha Khandana
Author(s): Siddharshi Gani, Rasiklal C Parikh
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 69
________________ ३० काव्यप्रकाशखण्डन कैलासालय भाललोचनरुचा निर्वर्तितालक्तकव्यक्तिः पादनखद्युतिर्गिरिभुवः सा वः सदा त्रायताम् । स्पर्द्धाबन्धसमीहयेव सुदृढं रूढा यया नेत्रयोः कान्तिः कोकनदानुकारसंरसा सद्यः समुत्सार्यते ॥ कैलासालयः शिवः, अत्र गिरिभुवः कोपवशात् नेत्रयोः शोणा कान्तिरासीत् सा पादप्रणते शिवेऽपगतेति ध्वनितम् । तत्रेदमुत्प्रेक्षते - स्पर्द्धाबन्धेति । रूढा उपचिता । अत्र भावस्य त्रायतामित्यवगतस्य कविनिष्ठस्य रसो महादेवनिष्ठा रतिः प्रणतिरवसेया । महादेवोऽपि यत्प्रसादनाय प्रणमति तत्र भक्तिरुचितेति रसस्य भावाङ्गता । एवं सर्वत्रा - ङ्गाङ्गिभावो बोध्यः । अनुरणनरूपस्य रसस्य वाच्याङ्गत्वं यथा Jain Education International - जनस्थाने भ्रान्तं कनकमृगतृष्णान्धितधिया वचो वैदेहीति प्रतिपदमुदश्रु प्रलपितम् । कृतालंका भर्तुर्वदनपरिपाटीषु घटना मयाप्तं रामत्वं कुशलवसुता न त्वधिगता ॥ मया रामत्वं रामसादृश्यं आतं प्राप्तमित्यन्वयः । स्वपक्षे जनस्थानं नगर-ग्रामादि, रामपक्षे जनस्थानं खर-दूषणादिनिवासः दण्डकारण्यं वा । खपक्षे कनकविषया मृगतृष्णा निः फलाऽऽशा, रामपक्षे कनकमृगे सुवर्णमृगे तृष्णा च । वै निश्चितं देहि प्रयच्छ, रामपक्षे विदेहापत्यं स्त्री वैदेही सीता च । भर्तुः भरणकर्तुः । परिपाटीषु मुखविबलनाशमोनाऽनवधानादिषु का घटना न कृता तां वद । यद्वा [ १. १९.१ ] काभर्तुः कुत्सितभर्तुः । वदनपरिपाटीषु वचनभङ्गीषु, घटना योजना अलमत्यर्थेन न कृता । अलं व्यर्थ वा कस्य सुखस्याभर्तुर पोषकस्य श्रीचजनस्येत्यर्थः । लङ्काभर्तुः रावणस्य वदनानां परिपाठ्यां पङ्क्यां इषुघटना शरसंयो स्वपक्षे कुशलं प्रचुरं वसु धनं यस्य एवंभूतता । कुश-लवौ सुतौ यस्याः सा स | ' अत्र प्रकृताप्रकृतयोः कवि-रामयोः साम्यं व्यञ्जनया बोध्यते । अत्र शब्दशक्तिमूलानुरणनरूपो रामेण सह उपमानोपमेयभावो मयेत्यादिना वाच्याङ्गतां नीतः । शब्दानां परिवृत्त्य सहिष्णुत्वेन शब्दशक्तिमूलता । वाच्यस्य मयाप्तं रामत्वस्य । अन्यत्रान्यतादात्म्यारोपरूपस्यातिशयोक्तिरूपस्य अङ्गतां उत्कर्षतां नीतः । मयाप्तं रामत्वं इत्यभिधाय कविनेति शेषः । तदनुक्तावुपमाध्वनित्वानपायः स्यात् । अयमर्थः - सदृशे तत्त्वारोपस्य चमत्कारित्वात् वाच्यस्य तत्त्वारोपस्य प्रतीयमानं वसाम्यनुत्कर्षक मित्यपराङ्गता । ननु कुतो रामत्वं प्राप्तमित्याकाङ्क्षाया निवर्त्तकस्य साम्यस्य वाच्यसिद्ध्यङ्गत्वमेव नापराङ्गत्वम् ? इति चेत् न । जनस्थानभ्रमणादिरूप साम्यस्य शब्दशक्तिमूलव्यज्यतः प्रागेवावगतौ रामत्वारोपरूपवाच्यस्य सिद्धत्वात् । अङ्गरूपोपमायां तु जनस्थान इत्यादिशब्द एव सादृश्यम् । " For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148