Book Title: Kavya Prakasha Khandana
Author(s): Siddharshi Gani, Rasiklal C Parikh
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 117
________________ काव्यप्रकाशखण्डन एकस्यैव बहूपमानोपादाने मालोपमा । तथा यथोत्तरमुपमानस्योपमेयत्वे रस(श)नोपमा बोध्या। शृङ्खलान्यायेन पश्चाद् वलनया । यथा- . मतिरिव मूतिर्मधुरा मूर्तिरिव सभा प्रभावचिता। तस्य समेव जयश्रीः शक्या जेतुं नृपस्य न परेषाम् ॥ एवमन्यदपि बोध्यम् । उपमानोपमेयत्वे एकस्यैवैकवाक्यगे। . अनन्वयः. उपमानत्वं उपमेयत्वं चेत्यर्थः । उपमेयोपमावारणाय एकवाक्यग इति । उपमालासासम्बन्धः अन्वयस्तदभावोऽनन्वयः । अतोऽत्र उपमानान्तरव्यवच्छेदेन अमस्कार इति उपमातोऽस्य भेदः । यथा रामरावणयोर्युद्धं रामरावणयोरिव । विपर्यास उपमेयोपमा[५० ४८.१]तयोः॥ ( का० ९१, २०) तयोः उपमानोपमेययोः । विपर्यासः परिवृत्तिः अर्थात् वाक्यद्वये । उपमेयेन उपन्य उपमेयोपमा । यथा कमलेव मतिर्मतिरिव कमला, तनुरिव विभा विमेव तनुः । धरणीव धृतिधृतिरिव धरणी सततं विभाति बत यस्य । यस्य मतिर्बुद्धिः कमलेव लक्ष्मीरिव । कमला लक्ष्मीर्मतिरिव बुद्धिरिव । विभा कान्तिः तनुरिव शरीरमिव । तनुः शरीरं विभेव कान्तिरिव । धृतिधैर्य धरणीव पृथ्वीव । धरणी पृथ्वी धृतिरिव धैर्यमिव सततं निरन्तरं विभाति शोभत इत्यर्थः । तद्रूपकमभेदो य उपमानोपमेययोः। (का० ९३, ५०) अथवा उपमैव तिरोभूतभेदा रूपकमिष्यते । यथा - अथ लक्ष्मणानुगतकान्तवपुर्जलधिं व्यतीत्य स दाशरथिः । परिवारितः परित ऋक्षगणैस्तिमिरौघराक्षसबलं बिभेदे ॥ माला तु पूर्ववत् । (का०. ९४, १० पा.) मालोपमायामिव एकस्मिन् बहव आरोपिताः, तदा मालारूपकम् । यथा रूपामृतस्य वापिकाऽपि जयश्रीरनङ्गस्य ।। विभ्रमरसैकसंपद् जयति जनानन्दकन्दली बाला ॥ संभावनमथोत्प्रेक्षा प्रकृतस्य समेन यत् । (का० ९२, ५) समेन उपमानेन । समेनेत्यनन्तरम् , ऐक्यरूपेणेति शेषः । तथा च समेन उपमानेनेक्स रूपेण संभावनमुत्प्रेक्षेत्यर्थः । संभावनं उत्कटकोटिकः संदेहः । अयं चन्द्र एव भविष्यतीत्याकारः । यथा Jain Education International For Private & Personal Use Only www.jainelibrary.org


Page Navigation
1 ... 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148