Book Title: Kavya Prakasha Khandana
Author(s): Siddharshi Gani, Rasiklal C Parikh
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 125
________________ ૯૬ निजदोषावृतमनसागतिसुन्दरमेव भाति विपरीतम् । पश्यति पित्तोपहतः शशिशुभ्रं शङ्खमपि पीतम् ॥ तेषां विशेषात् सामान्येन यथा - 'सुसितवसना [ लंकारा ] या 'मित्यादि । वैधर्म्येणाद्यो यथा - गुणानामेव दौरात्म्या धुरि धुर्यो नियोज्यते । असंजातकिणस्कन्धः सुखं स्वपिति गौर्गलिः ॥ गलि: पतनशीलः । एवमन्येऽप्युदाहार्याः । काव्यप्रकाशखण्डन w W 1 विरोधः सोऽविरोधेऽपि विरुद्वत्वेन यद्वचः । (का० ११०, ५० ) वस्तुवृत्तेन अविरोधेऽपि विरुद्धयोरिव यदभिधानं स विरोधः । यथा अभिनवनलिनी किशलयमृणालवलयादि दवदहनराशिः । सुभग कुरङ्गeaser विधिवशतस्त्वद्वियोग १० ५२, २ ] पविपाते ॥ हे सुभग ! विधिवशतो दैवात् त्वद्वियोग एव भवद्विरह एव यः पविर्वजं तस्य पाते पतने सति अस्याः कुरङ्गदृशो मृगनेत्रायाः अभिनवा या नलिनी पद्मिनी किसलयं नवदलं मृणालस्य बिसस्य वलयं बाह्रलङ्करणं एतदादि सर्वं दवदहनराशिः दावानलखरूपं भवति । अत्रापाततो नलिनीदलत्वजातिदवदहनत्वे जात्योर्विरोधप्रतिभासेऽपि संतापकारित्वलक्षणसाधर्म्यपुरस्कारेण रूपकालङ्कारप्रतीतावाभासत्वम् । अस्य बहवो विषयाः स्वयं लक्ष्यतोऽनुस - र्त्तव्याः । कार्यकारणभूतयोर्धर्मयोर्भिन्नदेशतया आभासनरूपः असंगतिरूपोऽलङ्कारो विरोध एवान्तर्भूतः । यथा Jain Education International C जस्सेअ वणो तस्सेr वेअणा भणइ तजणो अलिअं । दंतक्खअं कवोले वहुए वेअणा सवत्तीणं ॥ [यस्यैव व्रणस्तस्यैव वेदना भणति तज्जनोऽलीकम् । दन्तक्षतं कपोले वध्वाः वेदना सपत्नीनाम् ॥ ] तथा सत्यपि कार्यस्य कारणरूपानुकारे यत् तयोर्गुणक्रिये च मिथो विरुद्धतां व्रजतः स विषमालङ्कारोऽप्यत्रैव विरोधेऽन्तर्भूतः । सद्यः करस्पर्शमवाप्य चित्रं रणे रणे यस्य कृपाणलेखा । तमालनीला शरदिन्दुपाण्डुयशस्त्रिलोकाभरणं प्रसूते ॥ तमालनीलाऽपि कृपाणलेखा रणे रणे यस्य करस्पर्शमवाप्य सद्यः शरदिन्दुशुभ्रं यशः प्रसूते एतच्चित्रम् । नीलया शुभ्रजननात् । कीदृशम् ? त्रयाणां लोकानां समाहारस्त्रिलोकी तस्याभूषणं सर्वलोकानामेकमाभरणमिति द्वितीयं चित्रम् । हस्तस्पर्शमात्रेण सद्यः प्रसव इति तृतीयम् । स्त्री हि पुंपाणिग्रहणानन्तरं कालान्तरे प्रसूते, रणे हिंसैव योग्या न तु प्रसव इति चतुर्थम् । स्त्री तु क्वचिदेव रतिरणे प्रसूते, इयं सर्वेष्वेव रणेष्विति पश्चमम् । कृपाणले For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148