Book Title: Kavya Prakasha Khandana
Author(s): Siddharshi Gani, Rasiklal C Parikh
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 126
________________ दशम उल्लास, खायाः प्रसव इति षष्ठम् । कृपाणधारा छिनत्ति न तु प्रसूते, तथा स्थूलोदरा हि प्रसूते न तु लेखाकारा । किं बहुना ? प्रतिपदमत्र पद्ये [प०५३,१ ]चित्रमुपसंहर्तुं शक्यम् । अत्र पाण्डुनीलयोः कार्यकारणगुणयोर्वैषम्यम् । तथा यद्यथा साधितं केनाप्यपरेण तदन्यथा ॥ (का० १३८, उ०) तथैव यदू विधीयेत स व्याघात [इति स्मृतः। (का० १३९, पू०) इति लक्षितस्य व्याघातस्य विरोध एवान्तर्भावः । उदा० दृशा दग्धं मनसिजं जीवयन्ति दृशैव याः। विरूपाक्षस्य जयिनीस्ताः स्तुवे वामलोचनाः॥ खभावोक्तिर्डि(क्तिस्तु डि)म्भादेः स्वक्रियारूपवर्णनम् ॥ (का० १११, उ०) रूपशब्देन वर्णः अवयवसंनिवेशश्च उभयं ग्राह्यम् । तथा च यादृशः खाभाविकधर्माभिधाने चमत्कारः तादृश एवालङ्कारः । यथा - अम्बाकरावलम्बादविलम्बाहुःखितस्खलच्चरणम् । कणितमणिमञ्जलरसं (रसनं?) मुकुलितदशनं हरिं वन्दे । व्याजस्तुतिर्मुखे निन्दास्तुतिर्वा रूढिरन्यथा । (का० ११२, पू०) मुखे प्रथमतः रूढिः, पर्यवसाने व्याजेन स्तुतिप्जरूपा स्तुतिर्वा । यथा - दातारं कृपणं मन्ये मृतोऽप्यर्थ न मुञ्चति । अदाता पुरुषस्त्यागी सर्व संत्यज्य गच्छति ॥ , सा सहोक्तिः सहार्थस्य बलादेकं द्विवाचकम् ॥ (का० ११२, उ०) _____ सहाथैत्यनेन समं सार्द्धमित्यादेः परिग्रहः । एकमपि एकप्रतियोगिकान्वयबोधकमपीत्यर्थः । द्विवाचकं द्विप्रतियोगिकान्वयबोधकम् । अयं भावः-विशेषणपदानां विशेष्यान्वितखार्थबोधकस्यौत्सर्गिकरवं प्रकृते च सहाद्यव्ययपदसमभिव्याहारविशेषसमभिव्याहारेण अपरार्थप्रतीतिप्रतियोगिकान्वयप्रतिपादनमित्युभयप्रतियोगिकखार्थान्वयबोधकमिति । यत्रैकत्र प्राधान्येनान्यस्य गुणत्वेन एकधर्मान्वयित्वं तत्र यमकालङ्कार इति पर्यवसितोऽर्थः । तेन चैत्र-मैत्री सह पचत इत्यादौ नातिप्रसङ्गः । समुच्चये द्वयोः प्राधान्येनान्वयः । अत्र स्वेकस । मथा साकं दिवसनिशाभिः श्वासा दीर्घा भवन्त्यद्य । अयि तनुलतया सुतनोर्जीवाशा दुर्लभा जाता ॥ विनोक्तिः सा विनान्येन यत्रान्यः सन्न चे(ने)तरः। (का० ११३, पू०) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148