________________
दशम उल्लास, खायाः प्रसव इति षष्ठम् । कृपाणधारा छिनत्ति न तु प्रसूते, तथा स्थूलोदरा हि प्रसूते न तु लेखाकारा । किं बहुना ? प्रतिपदमत्र पद्ये [प०५३,१ ]चित्रमुपसंहर्तुं शक्यम् । अत्र पाण्डुनीलयोः कार्यकारणगुणयोर्वैषम्यम् । तथा
यद्यथा साधितं केनाप्यपरेण तदन्यथा ॥ (का० १३८, उ०) तथैव यदू विधीयेत स व्याघात [इति स्मृतः।
(का० १३९, पू०) इति लक्षितस्य व्याघातस्य विरोध एवान्तर्भावः । उदा०
दृशा दग्धं मनसिजं जीवयन्ति दृशैव याः।
विरूपाक्षस्य जयिनीस्ताः स्तुवे वामलोचनाः॥ खभावोक्तिर्डि(क्तिस्तु डि)म्भादेः स्वक्रियारूपवर्णनम् ॥
(का० १११, उ०) रूपशब्देन वर्णः अवयवसंनिवेशश्च उभयं ग्राह्यम् । तथा च यादृशः खाभाविकधर्माभिधाने चमत्कारः तादृश एवालङ्कारः । यथा -
अम्बाकरावलम्बादविलम्बाहुःखितस्खलच्चरणम् । कणितमणिमञ्जलरसं (रसनं?) मुकुलितदशनं हरिं वन्दे ।
व्याजस्तुतिर्मुखे निन्दास्तुतिर्वा रूढिरन्यथा । (का० ११२, पू०) मुखे प्रथमतः रूढिः, पर्यवसाने व्याजेन स्तुतिप्जरूपा स्तुतिर्वा । यथा -
दातारं कृपणं मन्ये मृतोऽप्यर्थ न मुञ्चति ।
अदाता पुरुषस्त्यागी सर्व संत्यज्य गच्छति ॥ , सा सहोक्तिः सहार्थस्य बलादेकं द्विवाचकम् ॥ (का० ११२, उ०) _____ सहाथैत्यनेन समं सार्द्धमित्यादेः परिग्रहः । एकमपि एकप्रतियोगिकान्वयबोधकमपीत्यर्थः । द्विवाचकं द्विप्रतियोगिकान्वयबोधकम् । अयं भावः-विशेषणपदानां विशेष्यान्वितखार्थबोधकस्यौत्सर्गिकरवं प्रकृते च सहाद्यव्ययपदसमभिव्याहारविशेषसमभिव्याहारेण अपरार्थप्रतीतिप्रतियोगिकान्वयप्रतिपादनमित्युभयप्रतियोगिकखार्थान्वयबोधकमिति । यत्रैकत्र प्राधान्येनान्यस्य गुणत्वेन एकधर्मान्वयित्वं तत्र यमकालङ्कार इति पर्यवसितोऽर्थः । तेन चैत्र-मैत्री सह पचत इत्यादौ नातिप्रसङ्गः । समुच्चये द्वयोः प्राधान्येनान्वयः । अत्र स्वेकस । मथा
साकं दिवसनिशाभिः श्वासा दीर्घा भवन्त्यद्य । अयि तनुलतया सुतनोर्जीवाशा दुर्लभा जाता ॥ विनोक्तिः सा विनान्येन यत्रान्यः सन्न चे(ने)तरः।
(का० ११३, पू०)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org