________________
काव्यप्रकाशखण्डन ___ अन्येन विना अन्यः सन्न भवति असन् वा न भवतीत्यर्थः । [५० ५३,१] कचिवशोमनः कचित् शोभनः । यथा
विना रजन्या कश्चन्द्रो विना चन्द्रेण का निशा । द्वितीयो यथा
अनंयं विनेव राज्यश्रीः साध्वी योषिच्च चापलम् ॥
परिवृत्तिर्विनिमयो योर्थानां स्यात्परस्परम् ॥ ( का• ११३,उ.) परिवृत्तिरलङ्कारः
लास्यं कमलवनानां दत्वा दत्ते च सौरभं पवनः । तान्यपि मुदं जनेभ्यो ददति ततो लब्धदर्शनान्युचैः॥ प्रत्यक्षा इव यद्भावाः क्रियन्ते भूतभाविनः। (का• ११४, १०)
तद्भाविकम्. उदाहरणम् -
आसीदञ्जनमत्रेति पश्यामि तव लोचने। भाविभूषणसंभारां साक्षात् कुर्वे तवाकृतिम् ।।
काव्यलिङ्गं हेतोर्वाक्यपदार्थता ॥ (का. ११४, उ.) यथा
अनिर्भिनगभीरत्वादन्तYढघनव्यथः।
पुटपाकप्रतीकाशो रामस्य करुणो रसः॥ अत्र पूर्वार्द्धवाक्यार्थः पुटपाकप्रतीकाशे हेतुः । पदार्थता यथा
तं सन्तः श्रोतुमर्हन्ति सदसद्यक्तिहेतवः । अत्र सदसव्यक्तिहेतुत्वं श्रवणार्हत्वे हेतुः ।
पर्यायोक्तं विना वाच्यं वाचकत्वेन यद्वचः । (का० ११५, ५०) धाच्यतावच्छेदकं विना प्रकारान्तरेण वाच्यस्य अर्थस्य व्यञ्जनया यदमिधानं प्रतिपादनं तपर्यायेण भजयन्तरेण कथनात् पर्यायोक्तम् । यथा
यं प्रेक्ष्य चिररूढाऽपि निवासप्रीतिरुज्झिता ।
मदेनैरावणमुखे मानेन हृदये हरेः॥ यं कृष्णं प्रेक्ष्य ऐरावणमुखे मदेन निवासप्रीतिरुज्झिता । हरेरिन्द्रस्य हृदये मानेनाहहारेण निवासप्रीतिस्त्यक्ता । चिरकालं व्याप्य रूढाऽपि उपचिताऽपि । अत्रैरावणशको मद-मानविमुक्तौ जातौ इति व्यङ्गधमपि शब्देन प्रकारान्तरेणोच्यते, तेन यदेवोच्यते तदेव व्यङ्ग्यमिति । यथा तु व्यङ्ग्यं तथा नोच्यते ।
. मु. पु. 'परस्पर' स्थाने 'समासमैः' इति पाठो लभ्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org