________________
दशम उल्लासे, उदात्तं वस्तुनः संपत्. (का० ११५, तृ• पा० ) संपत् समृद्धियोगः । यथा -
मुक्ताः केलिविस्त्रहारगलिताः संमार्जनीभिर्हताः,
प्रातः प्राङ्गणसीनि मन्थरथलबालानिलाक्षारुणाः। दूराद् दाडिमबीजशङ्कितधियः कर्षन्ति केलीशुकाः, .
यद् विद्वद्भवनेषु भोजनृपतेस्तत् त्यागलीलायितम् ॥ केलिभिर्विसूत्रा ये हारा [ ५०५४,१] स्तेभ्यो गलिता या मुक्ता मुक्ताफलानि ताः प्रातःकाले मार्जनीभिर्हतास्तथाऽगन(ण)देशे मन्थरं मन्दं चलन्तो ये बालानां कामिनीनां अंहयस्तेषां लाक्षया अरुणाः ताः क(कि)ीभूताः दूरात् दृष्ट्या दाडिमबीजमिति शङ्कितबुद्धयः क्रीडाकीराः विद्वद्भवनेषु यत् कर्षन्ति तद् भोजनृपतेस्त्यागलीलायाश्चेष्टितम् । अत्र विद्वद्भवनस्य मुक्तादिधनसमृद्धियोगः ।
महतां चोपलक्षणम्॥ (का० ११५, च० पा०) उपलक्षणमङ्गभावः, अर्थादुपलक्षणीयेऽर्थे । . तदिदमरण्यं यसिन् दशरथवचनानुपालनव्यसनी।
निवसन् बाहुसहायश्चकार रक्षाक्षयं रामः ॥ न चात्र वीरो रसस्तस्येहाङ्गत्वात् ।
तत्सिद्धिहेतावेकस्मिन् यत्रान्यत् तत्करं भवेत् ।
समुच्चयोऽसौ. (का० ११६,) यथा
एवमेव विषमो नवमेघः सोऽपि वर्षतितरामभिरामम् ।
तत्र चेदविरलं प्लवशब्दाः पूर्णमेव सुतनोः शतमब्दाः ॥ अत्र शतपूर्णतायां नवमेघः करणं तदुपरि वर्षणाद्युक्तं काव्यलिङ्गे हेतु-हेतुमद्भावमात्रं विवक्षितं न पुनः हेतूनां गुणप्रधानचिन्ता । अत्र तु एकस्यैव तत्कार्यकारित्वं अन्ये तत्साहायकं कुर्वन्ति इति ततोऽस्याः भेदः ।
- स त्वन्यो युगपद् या गुणक्रियाः ॥ (का. ११६, उ०) गुणौ [च ] क्रिये च इति गुणक्रियाः । . नयनं तव रक्तं च मलिनाश्च रणेऽरयः।
धुनोति चासिं सहसा तनुषे च महद्यशः॥ एवं गुणक्रिययोरपि बोध्यम् ।
एकं क्रमेणानेकस्मिन् पर्यायः. (का० ११७, पू० ) एक वस्तु क्रमेणानेकस्मिन् यदभिधीयते स पर्यायः । उदा०
का० प्र० १२
तात्ता५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org