________________
काव्यप्रकाशखण्डन एकस्यैव बहूपमानोपादाने मालोपमा । तथा यथोत्तरमुपमानस्योपमेयत्वे रस(श)नोपमा बोध्या। शृङ्खलान्यायेन पश्चाद् वलनया । यथा- .
मतिरिव मूतिर्मधुरा मूर्तिरिव सभा प्रभावचिता।
तस्य समेव जयश्रीः शक्या जेतुं नृपस्य न परेषाम् ॥ एवमन्यदपि बोध्यम् ।
उपमानोपमेयत्वे एकस्यैवैकवाक्यगे।
. अनन्वयः. उपमानत्वं उपमेयत्वं चेत्यर्थः । उपमेयोपमावारणाय एकवाक्यग इति । उपमालासासम्बन्धः अन्वयस्तदभावोऽनन्वयः । अतोऽत्र उपमानान्तरव्यवच्छेदेन अमस्कार इति उपमातोऽस्य भेदः । यथा
रामरावणयोर्युद्धं रामरावणयोरिव ।
विपर्यास उपमेयोपमा[५० ४८.१]तयोः॥ ( का० ९१, २०) तयोः उपमानोपमेययोः । विपर्यासः परिवृत्तिः अर्थात् वाक्यद्वये । उपमेयेन उपन्य उपमेयोपमा । यथा
कमलेव मतिर्मतिरिव कमला, तनुरिव विभा विमेव तनुः ।
धरणीव धृतिधृतिरिव धरणी सततं विभाति बत यस्य । यस्य मतिर्बुद्धिः कमलेव लक्ष्मीरिव । कमला लक्ष्मीर्मतिरिव बुद्धिरिव । विभा कान्तिः तनुरिव शरीरमिव । तनुः शरीरं विभेव कान्तिरिव । धृतिधैर्य धरणीव पृथ्वीव । धरणी पृथ्वी धृतिरिव धैर्यमिव सततं निरन्तरं विभाति शोभत इत्यर्थः ।
तद्रूपकमभेदो य उपमानोपमेययोः। (का० ९३, ५०) अथवा उपमैव तिरोभूतभेदा रूपकमिष्यते । यथा -
अथ लक्ष्मणानुगतकान्तवपुर्जलधिं व्यतीत्य स दाशरथिः । परिवारितः परित ऋक्षगणैस्तिमिरौघराक्षसबलं बिभेदे ॥
माला तु पूर्ववत् । (का०. ९४, १० पा.) मालोपमायामिव एकस्मिन् बहव आरोपिताः, तदा मालारूपकम् । यथा
रूपामृतस्य वापिकाऽपि जयश्रीरनङ्गस्य ।। विभ्रमरसैकसंपद् जयति जनानन्दकन्दली बाला ॥
संभावनमथोत्प्रेक्षा प्रकृतस्य समेन यत् । (का० ९२, ५) समेन उपमानेन । समेनेत्यनन्तरम् , ऐक्यरूपेणेति शेषः । तथा च समेन उपमानेनेक्स रूपेण संभावनमुत्प्रेक्षेत्यर्थः । संभावनं उत्कटकोटिकः संदेहः । अयं चन्द्र एव भविष्यतीत्याकारः । यथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org