SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ दशम उल्लास . .. तद्धिते पूर्णा श्रौतीमुदाहरति । तस्य राज्ञो गाम्भीर्यस्य गरिमा गुरुत्वं गङ्गाया भुजङ्गः कामुकः समुद्रस्तद्वत् तस्येव । अत्र 'तत्र तस्येवे'त्यनेनेवार्थे वतेविधानाच्छोतीत्वमालोकनीयम् । एवं क्यचि क्यङि णमुलि च भवत्युपमा । क्रमेणादाहरणानि पौर सुतीयति जनं समरान्तरेऽसावन्तः पुरीयति विचित्रचरित्रचञ्चः। नारीयते समरसीम्नि कृपाणपागावालोक्य तस्य ललितानि सपत्नसेना ॥ ___ असौ राजा पौरं लोकं सुतीयति सुतमिवाचरति । उपमानादावाचार इति कर्मणि क्यच् । संग्राममध्ये अन्तःपुर इवाचरति । अधिकरणाच्चेति क्यच् । तस्य चरितानि निरीक्ष्य शत्रुसेना संग्रामसीमनि नारीयते नारीवाचरति । कर्तुः क्यङ् सलोपश्चेति क्यङ् । णमुलि भेदद्वयं दर्शयति-मृधेति मृधे निदाघधर्माशुदर्श पश्यन्ति तं परे । स पुनः पार्थसञ्चारं सञ्चरत्यवनीपतिः॥ मृधे संग्रामे परे शत्रवस्तं राजानं निदाघघाशुदर्श निदाघकालीनसूर्यमिव पश्यन्ति । स पुनरवनीपतिः राजा दीर्घसञ्चारं पार्थ इव सञ्चरति । अत्र 'कषादिषु यथाविध्यनुप्रयोगः।' अथ लुप्ता, तत्रेवादेलोपे यथा ततः कुमुदनाथेन कामिनीगण्डपाण्डुना । नेत्रानन्देन चन्द्रेण माहेन्द्री दिगलता ॥ - द्विपदसमासे तावदुदाहरति । ततस्तदनन्तरं चन्द्रेण गाहेन्द्री पूर्वा [ ५० ४७. २ ] दिक अलहता शोभिता । कीदृशेन ? कुमुदानां नाथेन प्रकाशकेन कामिनीगण्डवत् पाण्डुना पाण्डवर्णेन नेत्रानन्देन नयनसुखजनकेनेत्यर्थः । अत्र गण्डपाण्डुनेति द्वयोरेव पदयोः समासः । तथा धर्मवाद्योयोर्लोपे यथा सविता विधवति विधुरपि सवितरति तथा]दिनन्ति यामिन्यः । यामिनयन्ति दिनानि च सुखदुःखवशीकृते मनसि ॥ सुखमनुकूलवेदनीयम्, दुःखं प्रतिकूलवेदनीयम् । ताभ्यां व्याक्षे चित्ते सति, सविता सर्यों विधवति विधुंरिवाचरति । विधुश्चन्द्रः सवितरति सवितेवाचरति । यामिन्यो रात्रयो दिनन्ति दिनानीवाचरन्ति । दिनान्यपि दिवसान्यपि यामिनयन्ति यामिन्य इवाचरन्तीत्यर्थः । विधुरिवाचरतीत्याचारेऽर्थे क्विा तल्लोपश्च । आचारार्थककिपो लोपात् धर्मानुपादानम् । एतयोलोंपे-समासेऽपि, यथा-राजते राजकुञ्जरः - राजा कुञ्जर इव । त्रयाणां वादिधर्मोपमानानां लोपे भवत्युपमा । यथा- मृगनयना मानसं हरतीत्यादौ । 'सप्तम्युपमाने त्यादिना यदा समासलोपौ। अनयेनेव राजश्रीदैन्येनेव मनखिता। मम्लौ-साऽद्य(थ ?)विषादेन पमिनीव हिमाम्भसा ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002506
Book TitleKavya Prakasha Khandana
Original Sutra AuthorSiddharshi Gani
AuthorRasiklal C Parikh
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1953
Total Pages148
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy