SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ ७६ काव्यप्रकाश खण्डन उपमानोपमेयसाधारणधर्मोपमाप्रतिपादकानामुपादाने पूर्णा । एकस्य द्वयोस्त्रयाणां वा अनुपादाने लुप्ता । साग्रिमा । श्रत्यार्थी च भवेद् वाक्यें समासे तद्विते तथा ॥ (का० ८७) थे[व] वादिशब्दा यत्परास्तस्यैव श्रुत्यैव उपमानता प्रतीतिरिति । यथे [व] वादिशब्दसत्त्वे श्रौती तथैव 'तत्र तस्येवेत्यनेन इवार्थे [प० ४६, २] विहितस्य वतेरुपादाने । सदृशतुल्यादि - शब्दप्रयोगे 'सरसिजमिदमाननं च तस्याः सम' मित्यादौ प्रकृताप्रकृतपर्यालोचनयैव उपमानोपमेयप्रतीतिरित्यार्थी, ' तद्वत्तेन च तुल्य' मित्यादिना विहितस्य यतेः स्थितौ । ' इवेन नित्यसमासो विभक्त्यलोप' इति नित्यसमासे इवशब्दप्रयोगे समासगा । समासानुशासनप्रयोजनमभिरिव राजा इत्यादौ | अत्रेदमवधातव्यम् - चन्द्र इव मुखमित्यत्र यज्जातीयधर्माश्रयश्चन्द्रः तज्जातीयधर्माश्रयो मुखमित्युपमेय विशेष्यकैव प्रतीतिः, न तु चन्द्रनिष्ठ सजातीयधर्माश्रयो मुखमिति प्रकृति विशेष्यक एव प्रत्ययः । तथा सति हंसीव धवलश्चन्द्र इत्यादौ प्रतीतिमान्थर्यविरहेण दोषो न स्यात् । हंसी निष्ठधवलत्वसजातीयधवलवत्तया चन्द्रप्रतीतावनुभवसिद्धं मान्थर्थं न स्यात् । उभयविशेष्यकत्वे तु पुंस्त्वान्वितधवलपदस्य हंस्यामनुन्वयेन चन्द्रमात्रान्वये विवक्षितप्रतीत्यनुपपत्तिर्दोषसंभव एवेति । चन्द्र इव मुखं आह्लादकं इत्यत्र आह्लादकत्वस्य उभयगामित्वेऽपि नपुंसकस्य मुखपदस्य लिङ्गग्रहणं नपुंसकानपुंसकयोरित्यनुशासनात् इति । क्रमेणोदाहरणानि - W उत्थाय हृदि लीयन्ते दरिद्राणां मनोरथाः । बालवैधव्यदग्धानां कुलस्त्रीणां यथा कुचाः || चकितहरिण लोललोचनायाः क्रुधि नितरामरुणाभिरामशोभां । सरसिजमिदमाननं च तस्याः सममिति चेतसि संमदं विधत्ते । तस्या नायिकाया इदमाननं मुखं सरसिजं कमलं च समं तुल्यमिति कृत्वा चेतसि मनसि संमदमानन्दं विधत्ते करोति । तस्याः कीदृश्याः ? चकितश्चञ्चलो यो हरिणो मृगस्तद्वल्लोले चले लोचने यस्याः । आननं कीदृशम् ? क्रुधि क्रोधकाले तरुणः कठोरो योऽरुणः सूर्यस्तद्वारा उद्भटा हारिणी मनोहारिणी कान्तिदप्तिर्यस्य [ प ० ४७.१] तत् । इयं च समशब्दयोगादार्थी - वागर्थाविव संपृक्तौ वागर्थप्रतिपत्तये । जगतः पितरौ वन्दे पार्वती - परमेश्वरौ ॥ आद्यन्त- मध्यरहितं दशाहीनं पुरातनम् । अद्वितीयमहं वन्दे मद्वत्रसदृशं हरिम् ॥ गाम्भीर्य गरिमा तस्य सत्यं गङ्गाभुजङ्गवत् । [ दुरालोकः स समरे निदाघाम्बररत्नवत् ॥ ] Jain Education International ↑ मु.पु. 'क्रुधि तरुणारुणतारहार कान्ति' इति पाठो लभ्यते । अत्र च व्याख्याऽपि तथैव पाठानुसारिणी कृता दृश्यते । For Private & Personal Use Only www.jainelibrary.org
SR No.002506
Book TitleKavya Prakasha Khandana
Original Sutra AuthorSiddharshi Gani
AuthorRasiklal C Parikh
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1953
Total Pages148
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy