SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ पशम उल्लास . अजसमास्फालितवल्लकीगुणक्षतोज्वलाङ्गुष्ठनखांशुभिन्नया । .. पुरः प्रवालैरिव पूरितार्द्धया विभान्तमच्छस्फटिकाक्षमालया ॥ ससंदेहस्तु भेदोक्तौ तदनुक्तौ तु संशयः ॥ (का० ९२, उ०) प्रकृतस्य समेनेत्यनुवर्तते । तु भिन्नक्रमे । तदिति लिङ्गव्यत्ययात् संशय इत्यनेनान्वेति । तथा च-समेन प्रकृतस्य संशयस्तु यः ससंदेहनामालङ्कारः । अत्रोपमानीपमेययोरतिशयाई विप्रतिपत्तयः प्रादुर्भवन्ति ससंदेह अलङ्कारः, न तु स्थाणुपुरुषयोः भेदोक्तौ । यथा गतं तिरश्चीनमनूरुसारथेः [प० ४८, २] प्रसिद्धमूर्ध्वज्वलनं हविर्भुजः । पतय॑धो धाम विसारि सर्वतः किमेतदित्याकुलमीक्षितं जनैः ॥ बदमुक्तौ यथा अस्याः सर्गविधौ प्रजापतिरभूच्चन्द्रो नु कान्तिप्रदः शृङ्गारैकरसः स्वयं नु मदनो मासो नु पुष्पाकरः। वेदाभ्यासजडः कथं नु विषयव्यावृत्तकौतूहलो निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुनिः ॥ अत्र वेदाभ्यसनेन सर्गानभिज्ञत्वमुक्तम् । विषयव्यावृत्तेत्यनेन शृङ्गाररसाकौशलत्वमुक्तम् । मनोहरमित्यनेन कान्तिदानाशक्तिरुक्ता । पुराणमित्यनेन निर्माणेऽनिच्छोक्ता । यतो 'वृद्धस्य तरुणी विषमित्युक्तम् । नियतारोपणोपायः स्यादारोपः परस्य यः। तत्परंपरितं श्लिष्टे वाचके भेदभाजि वा ॥ (का० ९५) यथा विद्वन्मानसहंस वैरिकमलासंकोचदीप्तधुते ___ दुर्गामार्गणनीललोहित समित्स्वीकारवैश्वानर । सत्यप्रीतिविधानदक्ष विजयप्राग्भावभीम प्रभो साम्राज्यं वरवीर वास(वत्सोरशतं वैरिञ्चमुच्चैः क्रियाः॥ विदुषां पण्डितानां मानसमन्तःकरणमेव मानसं सरोविशेषस्तत्र हंस ! वैरिणां शत्रूणां कमलाया लक्ष्म्याः संकोच एव कमलानां पद्मानामसंकोचो विकासस्तत्र दीप्तद्युते सूर्य !, दुर्गाणां कोट्टलक्षणानां अमार्गणं अनन्वेषणमेव दुर्गाया भवान्या मानवत्या पार्गणं अन्वेषणं तत्र नीललोहित शिवखरूप !, समितां संग्रामाणां खीकारोऽङ्गीकार एव समिधां हवनीयानां जीकारतत्र वैश्वानर अमे ! सत्ये यथार्थे प्रीतिः प्रेमैव सत्यां सतीनामिकायां कन्यायां या समीतिषतस्या विधानं आचरणं तत्र दक्ष दक्षनामकप्रजापते !, विजयः परपराभव एवं विजयोऽर्जुनः तस्मात्प्राग्भावः प्रागुत्पत्तिस्तत्र भीम भीमसेन ! प्रभो समर्थ ! वरवीर उत्कृष्टवीर ! . 'माषणाचे पथमिदम्' इति दि० । २ 'केवलवेदी भवेद् वृष इस्युक्तेरिति भावः ।' इति टि.। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002506
Book TitleKavya Prakasha Khandana
Original Sutra AuthorSiddharshi Gani
AuthorRasiklal C Parikh
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1953
Total Pages148
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy