________________
काव्यप्रकाशखण्डन वैरिश्चं ब्रह्मसम्बन्धि वत्सरशतं व्याप्त साम्राज्यं उच्चैरत्यर्थ क्रियाः विदध्यादित्यर्थः । मानसमेव मानसं सरः, कंमलायाः लक्ष्म्याः संकोच एवं कमलानामसंकोचः, दुर्गाणाममार्गणं [प. ४९.१] एव दुर्गाणां मार्गणम् , समिता स्वीकार एव समिधां स्वीकारः, सत्ये प्रीतिरेव सत्यामप्रीतिः, विजय एव पराभव एव विजयोऽर्जुनः - एवमारोपणनिमित्तो हंसादेरारोपः । यद्यपि शब्दालङ्कारोऽयं तथापि प्रसिद्धिवशादत्रोक्तः । भेदभाजि यथा. आलानं जयकरिणः प्रतापतपनस्य पूर्वाद्रिः।
सेतुर्विपत्तिजलधेर्धरणिभुजस्ते भुजो जयति ॥ हे राजन् ! ते तव भुजो बाहुः जयति । कीदृशः? जयः परपराभव एव करी हस्ती, तस्यालानं बन्धनस्तम्भः । विपद्वारिधेः विपत्तिसमुद्रस्य दृषदां पाषाणानां सेतुः । प्रतापसूर्यस्य पूर्वाद्रिरुदयगिरिः । कीदृशस्य ते ? धरणी भुनक्तीति धरणीभुक् तस्य । अत्र जयादेर्भिन्नशब्दवाच्यस्य करित्वाद्यारोपे भुजस्यालानताद्यारोपो युज्यते । मालाऽपि पूर्ववद् बोध्या ।
प्रकृतं यनिषिध्यान्यत् साध्यते सात्वपह्नुतिः। (का० ९६, पू० ) निषिध्य उपमेयमसत्यं कृत्वा । यथा -
स्फुटनीलोत्पलपटलं सुधामयूखे सुधासरसि ।
___ मन्यामहे नितम्बिनि ! नैप कलङ्कः परिस्फुरति ॥ एवं भङ्ग्यन्तरैरप्यूह्या ।
द्योतयित्वा कमप्यर्थं गोपनीयं कथञ्चन ।
यदि श्लेषेणान्यथा वान्यथयेत सा त्वपहुतिः ॥ यथा कालेऽस्मिन् जलदानामिति प्रागुक्तम् ।
श्लेषः स वाक्ये एकस्मिन् यत्रानेकार्थता भवेत्॥ (का० ९६, उ०) यत्र शक्यभेदेन शब्दभेदः, तत्र शब्दश्लेषः । यथादर्शिते नानार्थे श्लिष्टे च । यत्रैकार्थः [ शक्यो ] अपरोऽर्थो निरूढलक्षणया प्राप्यते तत्रार्थश्लेषः । यथा -
उदयमयते दिङ्मालिन्यं निराकुरुतेतरां __ नयति नलिनी(निधन) निद्रामुद्रां प्रवर्त्तयति क्रियाः (यां)। रचयतितरां खैराचारप्रवर्तनकर्तनं
बत बत लसत्तेजःपुञ्जो विभाति विभाकरः ॥ विभाकरः सूर्यः राज्याभिषेककाले पुरोहितादिभिः तत्तुल्यत्वेन प्रतापरुद्रादिवत् संकेतितो नृपविशेषश्च । उदयं पूर्वाचलं संपदं च । दिशो मालिन्यं अन्धकारः दिश्यानां जनानां कुवेषत्वं वा । निद्रा मनःसंमीलनं निरुत्साहता [प० ४९. २] च । क्रियां गमनादिकां सदाचार च । खैराचारोऽभिसारादि वेदानुल्लङ्गध्य खेच्छाचरणं च । तेजसा रश्मीनां पुञ्जः, मनागपि खावमाननाक्षमता च ।
www.jainelibrary.org
For Private & Personal Use Only
Jain Education International