SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ दशम उल्लास, परोक्तिर्भेदकैः लिष्टेः समासोक्तिः, (का० ९७, ५० ) मेदकैः विशेषणैः लियैः प्रकृताप्रकृतसाधारणैः । प्रकृतार्थप्रतिपादकेन वाक्येन विष्टानां प्रकृतसाधारणानां भेदकानां विशेषणानां माहात्म्यात्, न तु विशेषसामर्थ्यादपि यदप्रकृतस्पाभिधानं व्यञ्जनं सा समासेन संक्षेपेण अर्थद्वयस्य कथनात् समासोक्तिः । यथा - हि [तु]ह (झ) बाहुप्फंसं जीये स कोवि उल्लासो । जयलच्छी तुह विरहे न उज्जला दुब्बला ननु सा ॥ अत्र तत्तद्विशेषणसामर्थ्यात् जयलक्ष्मीव्यवहारे कान्ताव्यवहारस्य आरोप्यमाणस्य चमत्कारितेति । इयमेवान्यैरेकदेशवर्त्तिरूपकमिति भण्यते । निदर्शना । अभवदूवस्तुसम्बन्धः उपमापरिकल्पकः ॥ (का० ९७, उ०) उपमानोपमेयभावे पर्यवसित इत्यर्थः । तस्य वाक्य - पदार्थभेदात् द्वैविध्यम् । तत्राद्यमुदाहरति - 'क्व सूर्यप्रभव' इत्यादिना । अत्राल्पविषयया मन्मत्या सूर्यवंशवर्णनं न स्यादित्ये को बाक्यार्थः । अपरस्तु उड्डपेन सागरतरणम् । न चोपमानोपमेयभावं विना अनयोः सम्बन्धः • संभवतीति उपमार्था पर्यवसानम् । द्वितीयो यथा - अस्या मुखस्य लीलां वहति शरत्शर्वरीनाथः । ८१ अत्र कथमन्यस्य लीलां अन्यो वहतीत्युपमायां पर्यवसानम् । पूर्ववन्मालाऽपि बोध्या । अप्रस्तुतप्रशंसा या [ सा ] सैव प्रस्तुताश्रया ॥ (का० ९८, उ० ) अप्रस्तुतस्य अप्रकृतस्य प्रशंसा वर्णना । अप्राकरणिकार्थाभिधानेन प्राकरणिकार्थस्याक्षेपोऽप्रस्तुतप्रशंसा । अस्या बहुविषयत्वेऽपि तुल्ये प्रस्तुते तुल्यान्तरस्याभिधाने अतीव चमत्कार इति तदेवोदा हियते - यथा - अवितततमोऽन्धकूपगर्भादिदमुदधारि करेण येन विश्वम् । चरमगिरिगभीरगह्वरान्तः पतति स एष न [ १० ५०. १ ] कश्चिदीक्षते ऽपि ॥ प्रस्तुतस् तथाविधस्य रवेरभिधानेन प्रकृतानेकोपकारस्य कस्यचिन्महापुरुषस्य दुर्दशायां केनापि किञ्चिन्नोपकृतमित्याक्षिप्यते । एवमन्यत्रापि बोध्यम् । निगीर्य्याध्यवसानं तु प्रकृतस्य परेण यत् । प्रस्तुतस्य यदन्यत्वं यद्यर्थोक्तौ च कल्पनम् ॥ (का० १०० ) कार्यकारणयोर्यश्च पौर्वापर्यविपर्ययः । विज्ञेयातिशयोक्तिः सा. (का० १०१ ) अस्याः सामान्यलक्षणम् – अतिशयप्रतिपत्तये अन्यस्य अन्यतादात्म्यकोक्तिरूपं निगरणं प्रकृतनिष्ठवसाधारणधर्मस्य अविषयीका (क) रणम् । तच्च चन्द्र इत्यत्र चन्द्र एवायं इत्यत्र च का० प्र० ११ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002506
Book TitleKavya Prakasha Khandana
Original Sutra AuthorSiddharshi Gani
AuthorRasiklal C Parikh
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1953
Total Pages148
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy