________________
૨
काव्यप्रकाशखण्डन
संभवति । प्रकृतं निगीर्य असाधारणधर्मेण अनुक्त्वा तेन रूपकाद् व्यवच्छेदः । अध्यवसा[ नं ] खतादात्म्येनाध्यवसायः । यथा -
लतामूले लीनो हरिणपरिहीनो हिमकरः
स्वयं हाराकारा गलति जलधारा कुवलयात् । घुनीते बन्धूकं तिलकुसुमजन्माऽपि पवनो गृहद्वारे पुण्यं परिणमति कस्यापि कृतिनः ॥ यच्च तदेवान्यत्वेनाध्यवसीयते सा अपरा ।
अन्यदेव हि लावण्यमन्यैवास्याः स्तनद्युतिः । तन्मन्ये रचना नैषा सामान्यस्य प्रजापतेः ।
मद्यर्थस्य यदि शब्देन चेच्छब्दे वा यत् कल्पनं अर्थादसंभाविनोऽर्थस्य सा तृतीया ।
यथा
d
उभौ यदि व्योम्नि पृथक् प्रवाहावाकाशगङ्गापयसः पतेताम् । तेनोपमीयेत तमालनीलमामुक्तमुक्तालतमस्य वक्षः ॥
-
कारणस्य शीघ्रकारितां वक्तुं कार्यस्य पूर्वोक्तौ समानकालोक्तौ च चतुर्थी । यथा - हृदयमधिष्ठितमादौ मालव्याः कुसुमचापबाणेन ।
चरमं रमणीवल्लभलोचनविषयं त्वया नीता ॥
मालव्या मालवीनाम्न्याः नायिकायाः हृदयं कुसुमबाणेन कामेनादौ प्रथमतः अधिष्ठित - माश्रितम् । हे रमणीवल्लभ ! त्वया चरमं पश्चादधिष्ठितम् । त्वया कीदृशेन ! लोचनविषयं नेत्रपात्रतां भजता गच्छतेत्यर्थः । अत्र राजदर्शनेन हृदये मदनवेदनेति [ १० ५०, २] तयोर्वैपरीत्यवर्णनमिति । समानकालो तौ यथा
-
'सममेव समाक्रान्तं द्वयं द्विरदगामिना' - इत्यादौ ।
Jain Education International
प्रतिवस्तूपमा तु सा । (का० १०१, च० पा०
सामान्यस्य द्विरेकस्य यत्र वाक्यद्वये स्थितिः ॥ (का० १०२, पू० )
सामान्यस्य साधारणधर्मस्य वाक्यद्वये उपमानवाक्ये उपमेयवाक्ये च । यथा - देवीभावं गमिता परिवारपदं कथं भजत्येषा |
न खलु परिभोगयोग्यं दैवतरूपाङ्कितं रत्नम् ॥
एषा देवीभावं कृताभिषेकस्त्रीत्वं प्रापिता परिजनपदवाच्यतां कथं भजति ! नेत्यर्थः । खलु निश्चितं दैवतरूपेण देवतामूर्त्या अङ्कितं चिह्नितं रलं न परिभोगयोग्यं हस्तांद्यलङ्करणयोग्यमित्यर्थः । अत्र कथमित्यनेन न खलु इत्यनेन च अनौचित्यं प्रत्याय्यते इत्येकस्यैव अनौचित्यरूपसामान्यस्य द्विरुपादानम् । 'यदि दहत्यनिल' इत्यत्र मालारूपा चैषा बोध्या । + 'भजतेत्यपि पाठः' इति वि० ।
१ सु. पु. सर्वत्र 'मालत्या' - 'मालती' शब्दो लभ्यते ।
•)
For Private & Personal Use Only
www.jainelibrary.org