________________
दशम उल्लास
दृष्टान्तः पुनरेतेषां [सर्वेषां ] प्रतिबिम्बनम् ॥ (का० १०२, उ० ) एतेषां साधारणधर्मादीनां प्रतिबिम्बनं विशिष्टोपमा । यथा 'दर्पान्धगन्धगजकुम्भ' इति । दृष्टो निश्चयो यत्र स दृष्टान्तः । गृहीतप्रामाण्यकः । यत्र दृष्टान्तवाक्येन दान्तिक - वाक्यार्थनिश्चयस्य प्रामाण्यग्रहो भवतीत्यर्थः । यथा -
त्वयि दृष्ट एव तस्या निवृत्ति ( निर्वाति) मनो मनोभवज्वलितम् । आलोके हि हिमांशोर्विकसति कुमुदं कुमुद्वत्याः ॥
.
सकृद्वृत्तिस्तु धर्मस्य प्रकृताप्रकृतात्मनाम् । सैव क्रियासु बह्रीषु कारकस्येति दीपकम् ॥ (का० १०३ ) धर्मस्य सकृद्वृत्तिरुपादानं सैव सकृद्वृत्तिर्बह्वीषु क्रियासु सतीष्वित्यर्थः । क्रियाखित्यादि - शब्दात् गुणपरिग्रहः । धर्मस्य क्रियादिरूपस्य एकस्य सकृद्दीपनादू दीपकम् । यथा किविणाण धणं नाआण फणमणी केसराइँ सीहाणं । कुलबालिआण थणआ कुत्तो छिप्पंति अमुआणं ॥
अत्र स्पृशन्ति इति क्रिया सकृदुपात्ता । एवं बह्वीषु क्रियासु एकस्य कारकस्योपादानं बोध्यम् ।
मालादीपक मायं चेद् यथोत्तरगुणावहम् । (का० १४, पू० ) पूर्वेण पूर्वेण वस्तुना उत्त [ प ० ५१,१] रोचरमुपक्रियते तन्मालादीपकम् । यथासंग्रामाङ्गणसंगतेनं भवता चापे समारोपिते
संप्राप्ते परिपन्थियोधनिवहे सांमुख्यमासादितम् । ।
कोदण्डेन शराः शरैररिशिरस्तेनापि भूमण्डलं
तेन त्वं भवता च कीर्त्तिरतुला कीर्त्त्या च लोकत्रयम् ॥
अत्र निःसपत्नभूलोकत्रयव्यापि कीर्त्तिलाभान्नृपोत्कर्षः प्रतीयते । तत्र पूर्वे यथायोगं उत्तरोतरोपकारकाः नियतानां प्राकरणिकानामेव अप्राकरणिकानामेव वा वृत्तिरित्यनुवर्त्तते । अर्थवशाद् विभक्तिविपरिणामः वर्त्तते, उपादीयते सकृद् धर्म इत्यर्थः । यथा -
अन्यस्य उपमेयस्य व्यतिरेकः आधिक्यम् । यथा
पाण्डु क्षामं वदनं हृदयं सरसं तवालसं च वपुः । आवेदयति नितान्तं क्षेत्रियरोगं सखि ! हृदन्तः ॥
अत्र विरहानुभावत्वेन प्रकृतानां पाण्डुतादीनां सकृदुपात्तानां वेदनक्रियायामन्वयः । क्षेत्रिय रोगो यावद् देहभावी देहान्तरचिकित्सः । एवमप्रकृतानामपि ।
उपमानाद्यदन्यस्य व्यतिरेकः स एव सः । (का० १०५, ५० )
❤
Jain Education International
-
-
१ मु. पु. "मागतेन' इति पाठः । † मु.पु. भयं पादपाठात्मको लभ्यते - 'देवाकर्णय येन येन सहसा यद्यत् समासादितम् ।'
Men
For Private & Personal Use Only
www.jainelibrary.org