SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ ८४ इयं नायिका सुनयना शोभननेत्रा अकलङ्केन निर्दूषणेन आननेन मुखेन कलडिनं कलङ्कयुक्तं इन्दुं चन्द्रं जयति । आननेन कीदृशेन ? दासीकृता तामरसस्य पद्मस्य श्रीः शोभा येनेत्यर्थः । तथा - काव्यप्रकाशखण्डन इयं सुनयना दासी कृततामरसश्रिया । आननेनाकलक्ङ्केन जयन्तीन्दुं कलङ्किनम् ॥ आक्षेप उपमानस्य प्रतीपमुपमान (मेय )ता । • तस्यैव यदि वा कल्पा (ल्या) तिरस्कारनिबन्धनम् ॥ (का० १३३) इत्युभयरूपस्य प्रतीपस्यात्र व्यतिरेक एवान्तर्भावः । यथा - लावण्यौकसि राजनि राजत्यस्मिन् किमिन्दुबिम्बेन । द्वितीयं यथा शृणु सखि ! तव वचनीयं तव वदनेनोपमीयते चन्द्रः । अनोपमेयस्य न्यूनतायामपि व्यतिरेकमिच्छन्ति । यथा हनूमताद्यैर्यशसा मया पुनर्द्विषां हसैः दूत्यपथः सितीकृतः । इत्यादिषु । - मयाप्तं रामत्वं कुशलवसुता न त्वधिगता । Jain Education International निषेधो वक्तुमिष्टस्य यो [१० ५१,२] विशेषाभिधित्सया ॥ (का० १०६, उ० ) वक्ष्यमाणोक्तविषयः स आक्षेपो द्विधा मतः । (का० १०७, वक्तुमिष्टस्य निषेध इति सामान्यलक्षणम् । वक्ष्यमाणेत्यादिविशेषद्वयं वक्तुमिष्टस्य विवक्षितस्य अवश्यवक्तव्यत्वं अतिप्रसिद्धत्वं वा । वक्तुं निषेधो निषेध इव यः स यथाक्रमं वक्ष्यमाणविषयः उक्तविषयश्चेति द्विविध आक्षेपः । यथा - अऍ एहि[किं पि] तीया (कीए) वि कये णिक्किव भणामि अलमह वा । अविआरिअकञ्जारंभआरिणी मरउ ण भणिस्तं ॥ t ५०) [ भये एहि किमपि कस्या अपि कृते निःकृप भणामि [ अलमथ वा ] । अविचारित कार्यारम्भकारिणी म्रियतां न पुनर्भणिष्यामि ॥ ] न भणिष्यामीति पौनरुक्त्यं खेदातिशयपोषकम् । अत्रोद्देश्यनायिकादुरवस्थानिवेदनस्य वक्ष्यमाणाया वा मरणावस्थाया अभिधानस्य अलमित्यादिनिषेघो अशक्यवक्तव्यत्वमस्या व्यञ्जयति । For Private & Personal Use Only www.jainelibrary.org
SR No.002506
Book TitleKavya Prakasha Khandana
Original Sutra AuthorSiddharshi Gani
AuthorRasiklal C Parikh
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1953
Total Pages148
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy